This page has been fully proofread once and needs a second look.

२८
 
कविरहस्यम्
 
उच्चुलु[^१]म्पति लावण्यं नेत्राञ्जलिपुटैर्जनः ॥ १७५ ॥
द[^२]धते यः सदाचारं सदा चारणसंस्तुतः ॥
द[^३]धते शासनं यस्य शिरसा च नरेश्वराः ॥ १७६ ॥
दद[^४]ते द्रविणं भूरि ब्राह्मणेभ्यः सदैव यः ॥
दद[^५]ते ब्राह्मणा यस्मै सन्तुष्टा नित्यमाशिषः ॥ १७७ ॥
स्रंस[^६]ते दुरितं राष्ट्रे प्रजाभ्यो यत्प्रभावतः ॥
प्रेर्यमाणा शरौघेण स्रस[^७]तेऽरिपताकिनी ॥ १७८ ॥
प्रमादेनापि देवाग्निगुरुभ्यः शप[^८]ते न यः
साक्षात्कृतागसे कोपादासायापि न शप्य[^९]ति ॥ १७९ ॥
नट[^१०]न्ति नाटके यस्य चरितं भरतादयः ॥
नाट[^११]यन्ति स्फुटं येषां पताका विक्रमक्रमाः ॥ १८० ॥
होमाग्रिधूमसुरभिः पव[^१२]ते मारुतो मृदुः ॥
गोदावरीतरङ्गार्द्रः पुनीते[^१३] यद्भुवि प्रजाः ॥ १८१ ॥
यो न वञ्च[^१४]यते कञ्चित् सदा सत्यपरायणः ॥
वञ्च[^१५]न्ति च शरच्चन्द्रशुचयो दिक्षु यद्गुणाः ॥ १८२ ॥
योs घिमीमति[^१६] मीमांसां तदर्थमनुतिष्ठति ॥
पशवोपि न मीमन्ति[^१७] यद्देशे दुःखपीडिताः ॥ १८३ ॥
सुखं कृ[^१८]षति शालेयमिक्षुक्षेत्रं च क[^१९]र्षति ॥
यत्प्रसादादविज्ञातक्लेशो जनपदः सदा ॥ १८४ ॥
 
[^१] चुलुम्प् इति लुप्यर्थको भ्वादौ आकृत्या गणितः (१-५) ।
[^२] दध् (अ) धारणे (१ - आ. ) ।
[^३] धा (डु-ञ्) धारणपोषणयोः (३- उ. ) ।
[^४] दद् (अ) दाने (१-आ.) ।
[^५] दा (डु-ञ्) दाने ( ३- उ. )
[^६] स्रंस् (उ) अवलंसने (१-आ.) ।
[^७] स्रस् (उ) प्रमादे ( १ - अ. )
[^८] शप् (अ) आक्रोशे (१ - उ ) ।
[^९] शप् (अ) " (४-उ.)
[^१०] नट् (अ) नृतौ (१-प.) ।
[^११] नट् " अवस्यन्दने (१०-उ.)।
[^१२] पू. (ङ्) पवने ( १-आ.) ।
[^१३] पू (ञ्) पवने (९-उ. ) ।
[^१४] वञ्च् (उ) प्रलम्भने (१०-आ.) ।
[^१५] वञ्च् ( उ ) गत्यर्थः ( १-प. ) ।
[^१६] मीम् (ऋ ) गतौ शब्दे च ( १-प.) ।
[^१७] "
[^१८] कृष् (अ) विलेखने (६-उ.)।
[^१९] कृष् (अ) " ( १-प. ) ।