This page has been fully proofread once and needs a second look.

सप्रस्फोटम्.
 
हल्लन्ति हस्तिष्टष्ठेषु सेनान्यः कोटिशः पुरः ॥
हेर्यन्ति हरयोऽसंख्या यस्य नागाश्च निर्गमे ॥ १६७ ॥
एकोपि विसृजत्याजौ बाणवृष्टिमरातिषु ॥
यस्योपरि विसृज्यन्ते पुष्पवृष्टिं च खेचराः ॥ १६८ ॥
क्षमते यो दरिद्राणां लक्षमप्यागसां प्रभुः ॥
न क्षाम्यति क्षितीशानामपराधकणानपि ॥ १६९ ॥
तितिक्षते क्षमी यस्तु सापराधेषु साधुषु ॥
तेजयन्ति यमश्रान्तं बन्दिवृन्देरिता गिरः ॥ १७० ॥
यस्य योगनिषक्तस्य भोगतृष्णा श्लथायते ॥
श्लथते दीर्घसंसारग्रन्थिमात्मविनिश्चयात् ॥ १७१ ॥
विश्राणयति यः श्रीमान् शिष्टेभ्यो विपुलं वसु ॥
विश्रणन्ति च ते यस्मै सत्यवाचः शुभाशिषः ॥ १७२ ॥
व्यायामदृढदेहापि मन्दते यो न सुन्दरः ॥
मन्दायते क्वचित् कार्ये परार्थे न च कर्हिचित् ॥ १७३ ॥
अपमृत्युं परित्यज्य सुखं प्राणिति यत्प्रजा ॥
न प्राण्यते परं तस्य प्रतिकूलं करोति यः ॥ १७४ ॥
योऽवलम्पति पूर्वेषां राज्ञां कीर्तिं यदानने ॥
 
[^१] हल्ल् (अ) कासने (१-प.) ।
[^२] हर्य् (अ.) गतिकान्त्योः (१-प.) ।
[^३] सृज् (अ) विसर्गे (६-प.) ।
[^४] सृज् (अ.) " (४-आ.) ।
[^५] क्षम् (ऊष्) सहने (१ -आ. ) ।
[^६] क्षम् (ऊ) " (४-प.) शमामष्टाना ( २५१९) मिति दीर्घः ।
[^७] तिज् ( अ ) क्षमायाम् (१-आ.)स्वार्थे सन्नन्तस्य रूपम् ।
[^८] तिज् ( अ ) निशाने (१०–उ. ) ।
[^९] श्लथ (०) नामधातुरयम् (उ.) लोहितादी (२६६८) ति क्यष् । वा क्यष (२६६९) इति पदविकल्पः ।
[^१०] श्लथ् (अ) शैथिल्ये (१-आ. ) ।
[^११] श्रण (अ) दाने (१०-उ. ) ।
[^१२] श्रण (अ, म् ) " (१-प.)
[^१३] मद् (इ) [ मन्द् ] स्तुतिमोदमदस्वमकान्तिगतिषु (१-आ.)
[^१४] मन्द - (नामधातुः-आ.) ।
[^१५] अन् (अ) प्राणने (२-प. ) णत्वम् ।
[^१६] अण् (अ) " (४-आ.) ।
[^१७] लुप् (ल) छेदने ( ६-उ. ) ।