This page has been fully proofread once and needs a second look.

२६
 
कविरहस्यम्.
 
प्रकोप[^१]यति तस्मै स यस्तेन सदृशोऽपरः ॥ १५८ ॥
ईड[^२]ते विष्टपास्थाने यद्गुणांश्चारणव्रजाः ॥
स्वयं पुलकितो हर्षाद् बिडौना ईडय[^३]त्यपि ॥ ११९ ॥
अङ्क[^४]ते पुण्यतीर्थेषु प्रस्तरेष्वतिशक्तिमान् ॥
[^५]ङ्ग्यत्यरिसैन्यानि विचित्रैर्युधि सायकैः ॥ १६० ॥
निःशेषय[^६]ति यः शत्रून् शेषदीर्घभुजद्वयः ॥
निःशेष[^७]ति च दानेन भाण्डागारं दिने दिने ॥ १६१ ॥
सुलभं सस्यमुञ्छ[^८]न्ति यद्देशे व्रतिनो जनाः ॥
उच्छ[^९]न्ति च वराल्लुब्धेनार्थेन परिपूरिताः ॥ १६२ ॥
परमुद्वा[^१०]सयन्त्येके ये भिक्षाव्रतचारिणः ॥
न दीनदुःखितास्ते स्युर्ये वसन्त्य[^११]स्य मण्डले ॥ १६३ ॥
न काङ्क्ष[^१२]त्यनृतं कश्चिन्न वाञ्छ[^१३]ति परस्त्रियम् ॥
सर्वोपि धार्मिकस्तत्र तस्य राष्ट्रे स्थितो जनः ॥ १६४ ॥
उद्घा[^१४]टते न कस्यापि कर्म धर्मपरायणः ॥
उद्घाट[^१५] यति गोष्ठीषु सर्वेषामेव यो गुणान् ॥ १६५ ॥

स्ते[^१६]पन्ते यस्य वक्रेन्दोर्लावण्यमृतबिन्दवः॥
यं वीक्ष्य तेपते "[^१७] स्त्रीणां वपुः स्मरशराहतम् ॥ १६६ ॥
 
[^१] कुप् (अ) उक्तार्थ: " (१०-उ.) ।
[^] ईड् (अ) स्तुतौ ( २ - आ. ) आत्मनेपदे (२२५८) ष्विति अन्तस्य अत् ।
[^] ईड् ( अ ) " ( १० - उ. ) ।
[^] अक् (इ) [ अङ्क ] लक्षणे (१-आ. )
[^] अङ्क ( ० ) पदे लक्षणे च ( १०-उ. ) ।
[^६] शिष् ( अ ) असर्वोपयोगे (१०-उ. ) ।
[^] शिष् (अ) ( १०-प.) " णिजभावः ।
[^] उच्छ् (इ) [ उञ्च्छ् ] उञ्च्छे (१-प.) ।
[^] उच्छु (ई) विवासे ( ६- प. ) ।
[^१०] वास (०) उपसेवायाम् (१०-उ. ) ।
११[^११] वस् (अ) निवासे (१-प.)।
[^१२] काक्ष् ( इ ) [ काङ्क्ष् ] काङ्क्षायाम् (१-प.)
[^१३] वाच्छ् (इ) [वाञ्च्छ्] इच्छायाम् (१-प.) ।
[^१४] घट् (अ) चेष्टायाम् (१-आ.) ।
[^१५] घट् (अ) संघांते (१०-उ.) ।
१६[^१६] ष्टेपू (ॠ) [ स्तेप् ] क्षरणे (१-आ.) ।
[^१७] तेप् (ॠ ) कम्पने (१-आ.) ।