This page has not been fully proofread.

२६
 
कविरहस्यम्.
 
प्रकोपयति तस्मै स यस्तेन सदृशोऽपरः ॥ १५८ ॥
ईडते विष्टपास्थाने यद्गुणांश्चारणव्रजाः ॥
स्वयं पुलकितो हर्षाद् बिडौना ईडयत्यपि ॥ ११९ ॥
अङ्कते पुण्यतीर्थेषु प्रस्तरेष्वतिशक्तिमान् ॥
अङ्ग्यत्यरिसैन्यानि विचित्रैर्युधि सायकैः ॥ १६० ॥
निःशेषयति यः शत्रून् शेषदीर्घभुजद्वयः ॥
निःशेषति च दानेन भाण्डागारं दिने दिने ॥ १६१ ॥
सुलभं सस्यमुञ्छन्ति यद्देशे व्रतिनो जनाः ॥
उच्छन्ति च वराल्लुब्धेनार्थेन परिपूरिताः ॥ १६२ ॥
परमुद्वासयन्त्येके ये भिक्षाव्रतचारिणः ॥
न दीनदुःखितास्ते स्युर्ये वसन्त्यस्य मण्डले ॥ १६३ ॥
न काङ्क्षत्यनृतं कश्चिन्न वाञ्छति परस्त्रियम् ॥
सर्वोपि धार्मिकस्तत्र तस्य राष्ट्रे स्थितो जनः ॥ १६४ ॥
उद्घाटते न कस्यापि कर्म धर्मपरायणः ॥
उद्घाटयति गोष्ठीषु सर्वेषामेव यो गुणान् ॥ १६५ ॥
 
स्तेपन्ते यस्य वक्रेन्दोर्लावण्यमृतबिन्दवः॥
यं वीक्ष्य तेपते " स्त्रीणां वपुः स्मरशराहतम् ॥ १६६ ॥
 
१ कुप् (अ) उक्तार्थ: " (१०-उ.) ।
२ ईड् (अ) स्तुतौ ( २ - आ. ) आत्मनेपदे (२२५८) ष्विति अन्तस्य अत् ।
३ ईड् ( अ ) " ( १० - उ. ) ।
४ अक् (इ) [ अङ्क ] लक्षणे (१-आ. )
५ अङ्क ( ० ) पदे लक्षणे च ( १०-उ. ) ।
६ शिष् ( अ ) असर्वोपयोगे (१०-उ. ) ।
७ शिष् (अ) ( १०-प.) " णिजभावः ।
८ उच्छ् (इ) [ उञ्च्छ् ] उञ्च्छे (१-प.) ।
९ उच्छु (ई) विवासे ( ६- प. ) ।
१० वास (०) उपसेवायाम् (१०-उ. ) ।
११ वस् (अ) निवासे (१-प.)।
१२ काक्ष् ( इ ) [ काङ्क्ष् ] काङ्क्षायाम् (१-प.)
१३ वाच्छ् (इ) [वाञ्च्छ्] इच्छायाम् (१-प.) ।
१४ घट् (अ) चेष्टायाम् (१-आ.) ।
१५ घट् (अ) संघांते (१०-उ.) ।
१६ ष्टेपू (ॠ) [ स्तेप् ] क्षरणे (१-आ.) ।
१७ तेप् (ॠ ) कम्पने (१-आ.) ।