This page has been fully proofread once and needs a second look.

सप्रस्फोटम्.
 
मौर्व्या यो द्विषतां दर्पं भञ्ज[^१]यत्याञ्जनेयवत् ।
भन[^२]क्ति कामिनीनां च दृशो मानमनङ्गवत् ॥ १३३ ॥
यो वेवेक्ति[^३] च वेदान्तं शास्त्राभ्यासेन सर्वदा ।
विविनक्ति[^४] पृथग्भूतं भूतेषु च धनं च यः ॥ १३४ ॥
आप्या[^५]यन्ते यतः प्राप्य यज्ञभागं दिवौकसः ॥
तद्दत्तधनसंपद्भिराप्या [^६]यन्ते च यत्प्रजाः ॥ १३५ ॥
यो हि व्यायच्छते नित्यमसौ किल न मेद [^७]ते ।
अतिव्यायामशीलोसौ महाकायो न मेद्य [^८]ति ॥ १३६ ॥
युद्धे कृणा[^९]ति शत्रूणां कंधरां बाणवृष्टिभिः ॥
दत्वा बाणप्रहारं च तेषां क्रीणा[^१०]ति यः श्रियम् ॥ १३७ ॥
घृतार्चित इवार्चिष्मान् चर्च[^११]ते यो रणाङ्गणे ।
चर्चयत्य[^१२]ब्रुवाणश्च चर्च[^१३]ते च परैः सह ॥ १३८ ॥
धावन्त्या[^१४]धोरणाकान्ते विनीता यस्य वारणाः ॥
जात्या घुर्याश्च धू[^१५]र्यन्ते सादिभिः साधु साधिताः ॥ १३९ ॥
यस्मिन्नभ्युदिते राज्ञि संकोच[^१६]ति तमः क्षितौ ॥
संकुच[^१७]त्यरिनारीणां मुखपङ्केरुहद्युतिः ॥ १४० ॥
 
[^१] भज् (इ) [भञ्ज्] आमर्दने (१०-उ.) ।
[^२] भञ्ज् (ओ) " (७-प.) ।
[^३] विज् (इर् ) पृथग्भावे (३- उ.) अभ्यासगुणः ।
[^४] विच् (इर् ) " (७- उ.) ।
[^५] प्याय् (ओ-ई) वृद्धी (१-आ.) ।
[^६] प्ये (०) " ।
[^७] मिद् (ञि-आ.) स्नेहने (१-आ.) ।
[^८] मिट् (ञि-आ) " (४-प.) ।
[^९] कॄ (ञ्) हिंसायाम् ( ९-उ. ) प्वादित्वात् ह्रस्वः ।
[^१०] क्री (डुञ्. ) द्रव्यविनिमये (९-उ.) ।
[^११] चर्च् (अ) परिभाषणहिंसातर्जनेषु (१-प. ) चान्द्रा-दिमतेनात्मनेपदम् ।
[^१२] चर्च् ( अ ) अध्ययने (१०-उ. ) ।
[^१३] चर्च् (अ) परिभाषणभत्सर्नयोः (६-प.)
[^१४] धाव् (उ) गतिशुद्धयोः (१ उ.) ।
[^१५] धूर् (ई) हिंसागत्योः ( ४-आ. ) ।
[^१६] कुच् ( अ ) सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु (१-प.) ।
[^१७] कुच् (अ) संकोचने ( ६-ष.) ।