This page has not been fully proofread.

सप्रस्फोटम्.
 
मौर्व्या यो द्विषतां दर्पं भञ्जयत्याञ्जनेयवत् ।
भनक्ति कामिनीनां च दृशो मानमनङ्गवत् ॥ १३३ ॥
यो वेवेति च वेदान्तं शास्त्राभ्यासेन सर्वदा ।
विविनक्ति पृथग्भूतं भूतेषु च धनं च यः ॥ १३४ ॥
आप्यायन्ते यतः प्राप्य यज्ञभागं दिवौकसः ॥
तद्दत्तधनसंपद्भिराप्यीयन्ते च यत्प्रजाः ॥ १३५ ॥
यो हि व्यायच्छते नित्यमसौ किल न मेदते ।
अतिव्यायामशीलोसौ महाकायो न मेद्यति ॥ १३६ ॥
युद्धे कृणाति शत्रूणां कंधरां बाणवृष्टिभिः ॥
दत्वा बाणप्रहारं च तेषां क्रीणाति यः श्रियम् ॥ १३७ ॥
घृतार्चित इवार्चिष्मान् चर्चते यो रणाङ्गणे ।
चर्चयत्यब्रुवाणश्च चर्चते च परैः सह ॥ १३८ ॥
धावन्त्याधोरणाकान्ते विनीता यस्य वारणाः ॥
जात्या घुर्याश्च धैर्यन्ते सादिभिः साधु साधिताः ॥ १३९ ॥
यस्मिन्नभ्युदिते राज्ञि संकोचति तमः क्षितौ ॥
संकुचत्यरिनारीणां मुखपङ्केरुहद्युतिः ॥ १४० ॥
 
१ भज् (इ) [भञ्ज्] आमर्दने (१०-उ.) ।
२ भञ्ज् (ओ) "
(७-प.) ।
३ विज् (इर् ) पृथग्भावे (३- उ.) अभ्यासगुणः ।
४ विच् (इर् ) " (७- उ.) ।
५ प्याय् (ओ-ई) वृद्धी (१-आ.) ।
६ प्ये (०) " ।
७ मिद् (ञि-आ.) स्नेहने (१-आ.) ।

मिटूट् (ञि-आ) " (४-प.) ।
९ कॄ (ञ्) हिंसायाम्
( ९-उ. ) प्वादिला हूत्वात् ह्रस्वः ।
१० क्री (दुडुञ्. ) द्रव्यावयविनिमये
(९-उ.) ।
११ चर्चाच् (अ) परिभाषणहिंसातर्जनेषु (१-प. ) चान्द्रा-
दिमतेनात्मनेपदम्
१२ चर्चेच् ( अ ) अध्ययने (१०-उ. ) ।
१३ चर्च् (अ)
परिभाषणभत्सर्नयोः (६-प.)
१४ धाव् (उ) गतिशुद्धयोः (१ उ.) ।
१५ धूर् (ई) हिंसागत्योः ( ४-आ. ) ।
१६ कुच् ( अ ) संपर्यसम्पर्चकौटि
ल्यप्रतिष्टम्भविलेखनेषु
(१-प.) ।
१७ कुच् (अ) संकोचने ( ६-ष.
 
 
)