This page has not been fully proofread.

समस्फोटम्.
 
मौर्व्या यो द्विषतां दर्पं भञ्जयसाञ्जनेयवत् ।
भनेक्ति कामिनीनां च दशो मानमनङ्गवत् ॥ १३३ ॥
यो वेवेति च वेदान्तं शास्त्राभ्यासेन सर्वदा ।
विविनक्ति पृथग्भूत भूतेषु च धनं च यः ॥ १३४ ॥
आप्यायन्ते यतः प्राप्य यज्ञभागं दिवौकसः ॥
तद्दत्तधनसंपद्भिराप्यीयन्ते च यत्प्रजाः ॥ १३९ ॥
यो हि व्यायच्छते नित्यमसौ किल न मेदँते ।
अतिव्यायामशीलोसो महाकायो न मेद्यति ॥ १३६ ॥
 
युद्धे कृणांति शत्रूणां कंधरां बाणवृष्टिभिः ॥
दत्वा बाणप्रहारं च तेषां क्रीणाति यः श्रियम् ॥ १३७ ॥
घृतार्चित इवार्चिष्मान् चर्चेते यो रणाङ्गणे ।
चर्चयसब्रुवाणश्च चर्चेते च परैः सह ॥ १३८ ॥
धावत्याधोरणाकान्ते विनीता यस्य वारणाः ॥
जात्या घुर्याश्च धैर्यन्ते सादिभिः साधु साधिताः ॥ १३९ ॥
 
यस्मिन्नभ्युदिते राज्ञि संकोचंति तमः क्षितौ ॥
संकुचँसरिनारीणां मुखपरुहद्युतिः ॥ १४० ॥
 
१ भज् (इ) [भञ्ज्] आमर्दने (१०-उ.) । २ भञ्ज् (ओ) "
(७-प.) । ३ विज् (इर् ) पृथग्भावे (३- उ.) अभ्यासगुणः ।
४ विच् (इर् ) " (७- उ.) । ५ प्याय् (ओ-ई) वृद्धी (१-आ.) ।
६ प्ये (०) " । ७ मि (ञि-आ.) स्नेहने (१-आ.) । ८
मिटू (ञि-आ) (४-प.) । ९ कॄ (ञ) हिंसायाम्
( ९-उ. ) प्वादिला हूस्वः । १० क्री (दुञ्. ) द्रव्यावनिमये
(९-उ.) । ११ चर्चा (अ) परिभाषणहिंसातर्जनेषु (१-प. ) चान्द्रा-
दिमतेनात्मनेपदम् १२ चर्चे ( अ ) अध्ययने (१०-उ. ) । १३ चर्च् (अ)
परिभाषणभत्सर्नयोः (६-प.) १ १४ धाव् (उ) गतिशुद्धयोः (१ उ.) ।
१५ धूर् (ई) हिंसागत्योः ( ४-आ. ) । १६ कुच् ( अ ) संपर्यनकटिय
प्रतिष्टम्भविलेखनेषु (१-प.) । १७ कुच् (अ) संकोचने ( ६-ष.
 

 
1917
 
Bhandarkar Oriental
Research Institute