This page has been fully proofread once and needs a second look.

सप्रस्फोटम्.
 
बहु व्यय[^१]यति द्रव्यं तदर्थं च व्यय[^२]त्यरीन् ।
व्याय[^३]यत्ययशोबिम्बं त्रैलोक्यादर्शमण्डले ॥ ११७ ॥
अ[^४]र्दति द्विषतां<flag> दपान[^५]दते</flag> दुरितोदयम् ।
यश्चार्द[^६]यति दारिद्र्यं दीनानां द्रविणं दिशन् ॥ ११८ ॥
स्व[^७]दते विविधाहारैः स्वा[^८]दते च गिरां रसम् ।
आस्वाद[^९]यति सर्वेषां विषयाणां सुखानि यः ॥ ११९ ॥
यत्र विच्छ[^१०]त्यरिव्यूढं तत्र विच्छा[^११]यति स्वयम् ।
विच्च्छा[^१२]ययति तत्रासौ भूपतीनां मुखश्रियम् ॥ १२० ॥
न बिभेति[^१३] नरेन्द्रेभ्यो देवेभ्यो न च भेष[^१४]ति ॥
एकस्माद् भेषते[^१५]ऽधर्मात् कुर्याद्यस्तदतिक्रमम् ॥ १२१ ॥
यः कृण[^१६]त्ति गुणग्रामं कृन्त[^१७]त्यरिशिरांसि यः ।
की[^१८]र्तयन्ति च गोष्ठीषु यद्गुणानमराङ्गनाः ॥१२२ ॥
न्य[^१९]ञ्चति प्रत्यहं मोहो यस्य नाञ्च[^२०]न्ति चारयः ।
अञ्चय[^२१]न्ति सदा यं च गुणाः सर्वातिशायिनः ॥ १२३ ॥
न कुथ्ना[^२२]ति च दुःखार्तः शीतार्तश्च न कु[^२३]न्थति ।
तस्य राष्ट्रे धनाढ्यो वा मृतः कोपि न कु[^२४]थ्यति ॥ १२४ ॥
 
[^१] व्यय (०) वित्तसमुत्सर्गे (१०-उ.) ।
[^२] व्ययू (अ) गतौ (१-उ.) ।
[^३] व्ये (ञ्) संवरणे (१-उ.) । णिजन्तस्य रूपम् ।
[^४] अर्दू (अ) हिंसायाम् (१०-उ.) णिअभावः ।
[^५] "
[^६] " णिजन्तस्य रूपम्
[^७] ष्वद् ( अ ) [ स्वद् ] आस्वादने (१-आ. ) ।
[^८] स्वाद् ( अ ) ( १ - आ. ) ।
[^९] " ( १०- उ. ) ।
[^१०] विच्छ् (अ) गतौ (६-प.) ।
[^११] विछ् (अ) गतौ (६-प.) गुपूधूपेत्यायः ।
[^१२] " तस्यैव णिचि रूपम् ।
[^१३] भि (ञि) भये (३-प. ) ।
[^१४] भेष् ( ऋ ) " (१-उ.) ।
[^१५] "
[^१६] कृत् ( ई ) बेष्टने (७-प.) ।
[^१७] कृत् (ई) छेदने (६-प.) नुम् ।
[^१८] कृत् (अ) संशब्दने (१०-3 ) ।
[^१९] अच् ( इ ) गतियाचनादिषु (१-उ. ) ।
[^२०] अञ्च् (उ) गतिपूजनयोः (१-प.) ।
[^२१] अञ्च् (उ) विशे-षणे (१०-उ.) ।
[^२२] कुथ् (अ) संश्लेषणे (९-प.) ।
[^२३] कुथ् (इ) हिंसाकेशनयोः (१-प.) नुम् (नू) |
[^२४] कुथ् (अ) पूतीभावे (४-प.) ।