This page has not been fully proofread.


 
कविरहस्यम्.
 
क्षिणा[^१]ति दुरितं दृष्ट्या क्षिणोत्य[^२]र्थे च दुःखितम् ॥
भृत्यानां नित्यमज्ञानं यः क्षेणोति[^३] सदुक्तिभिः ॥ १० ॥
हिण्ड[^४]न्ते ये मृषा रात्रौ परस्त्रीषु हिड[^५]न्ति ये ॥
हेड[^६]ते नीतिसंपन्नो बान्धवानपि तानसौ ॥ ११ ॥
दण्डं जोडय[^७]ति ट्विट्सु वधं तेषां च जोड[^८]ति ॥
अद्धा समिद्धः क्रोधेन रिपूनपि जुड[^९]त्यसौ॥ १२ ॥
क्ष[^१०]यति प्रत्यहं पापं क्षा[^११]यति द्विषतां कुलम् ॥
यशः क्षि[^१२]यति रोदस्योर्यस्य धर्मरतात्मनः ॥ १३ ॥
अन्नं रा[^१३]ध्नोति विप्रार्थं व्यञ्जनानि च र[^१४]ध्यति ॥
यत्प्रसादाज्जनः सर्वः सततं रा[^१५]ध्यति श्रिया ॥ १४ ॥
यो मू[^१६]षति परद्रव्यं तस्य मु[^१७]ष्णाति यः शिरः ॥
मु[^१८]ष्यत्यपहृतार्थानां दुःखं धनसमर्पणात् ॥ १५ ॥
<error>भत्तचायति</error> <fix>भक्त्यार्च[^१९]यति</fix> विप्रान् गुरून् देवांस्तथाऽर्चति[^२०]॥
अ[^२१]र्चन्ते चरणौ यस्य मौलिरत्नांशुभिर्नृपाः ॥ १६ ॥
 
 
१ क्षी (ष्) हिंसायाम् (९-प.) ।
२ क्षिण् (उ) हिंसायाम् (८-उ.) संज्ञापूर्वको
<flag>वीधरानत्य</flag> इति गुणो न
भवतीत्यात्रेयादयः भवत्येवेत्यन्ये ।

" गुणः ।
४ हिड् (इ) [ हिण्ड ] गत्यनादरयोः । (१-आ.) ।
५ हिल् (अ) भाव-
करणे ( ६-प.) लडयोः सावर्ण्याड्डकारस्य प्रयोगो
बोध्यः |
६ हेड् (ऋ)
अनादरे (१ -आ.) ।
७ जुड् (अ) प्रेरणे (१० - उ.)
जुड् प्रतर्दने ( १-प. )
९ जुड्
(अ) गतीतौ (६-प.) ।
१० क्षी (ञ्) हिंसायाम्
क्षे
(१-उ.)
११ क्षै
(०) क्षये (१-प. ) ।
१२ क्षि (०)
निवासगस्यो: ( ६-प.) इयङ् (इय्) ।
१३ राध् (अ) संसिद्धी, (५-प.) ।
१४ रधू (अ) हिंसासंराद्रयोः (४-प.) ।
१५ राधू (अ) वृद्धौ (४-प.)
१६ मूष् (अ) स्तेये ( १ - प.) ।
१७ मुष् ( ) स्तेये (९-प.)
१८ मुष् (अ.) खण्डने (४-प.) |
१९ अर्च् (अ) पूजायाम् (१०-उ
. )
२० अर्च् (अ.) " (१-प.) ।
२१ चान्द्रमतेनात्मनेपदम्.

प्रतर्दने (१- प्र. ) ९
(१-उ.) । ११
 
)।

 
1917
 
27
 
तेजस्विनावधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute