This page has not been fully proofread.


 
कविरहस्यम्.
 
क्षिणीति दुरितं दृष्ट्या क्षिणोयेथे च दुःखितम् ॥
भृत्यानां नित्यमज्ञानं यः क्षेणोति सदुक्तिभिः ॥ १० ॥
हिण्डन्ते ये मृषा रात्रौ परस्त्रीषु हिडेंन्ति ये ॥
हेर्डेते नीतिसंपन्नो बान्धवानपि तानसौ ॥ ११ ॥
दण्डं जोडयँति छिट्टु वधं तेषां च जोति ॥
अद्धा समिद्धः क्रोधेन रिपूनपि जुडेससौ ॥ १२ ॥
क्षयति प्रत्यहं पापं क्षायति द्विषतां कुलम् ॥
यशः क्षियंति रोदस्योर्यस्य धर्मरतात्मनः ॥ १३ ॥
अन्नं रानोति विप्रार्थं व्यञ्जनानि च रेध्यति ॥
यत्प्रसादाज्जनः सर्वः सततं राध्यति श्रिया ॥ १४ ॥
यो मूंपति परद्रव्यं तस्य मुष्णाति यः शिरः ॥
मुध्यसपहतार्थानां दुःखं धनसमर्पणात् ॥ १५ ॥
भत्तचायति यो विप्रान् गुरून् देवांस्तथाऽर्चति ॥
अर्चन्ते चरणौ यस्य मौलिरत्नांशुभिर्नृपाः ॥ १६ ॥
 
। ८ जुड्
 
१ क्षी (ष्) हिंसायाम् (९-प.) । २ क्षिण् (उ) हिंसायाम् (८-उ.) संज्ञापूर्वको
वीधरानत्य इति गुणो न भवतीत्यात्रेयादयः भवत्येवेत्यन्ये । ३
गुणः ।
४ हिड् (इ) [ हिण्ड ] गत्यनादरयोः । (१-आ.) । ५ हिल् (अ) भाव-
करणे ( ६-प.) लडयोः सावर्ण्याड्डकारस्य प्रयोगो बोध्यः । ६ हेड् (ऋ)
अनादरे (१ -आ.) । ७ जुड् (अ) प्रेरणे (१० - उ.)
जुड् (अ) गती (६-प.) । १० क्षी (ञ) हिंसायाम्
क्षे (०) क्षये (१-प. ) । १२ क्षि (०)
निवासगस्यो: ( ६-प.) इयङ् (इय्) । १३ राध् (अ) संसिद्धी, (५-प.) ।
१४ रधू (अ) हिंसासंराद्रयोः (४-प.) । १५ राधू (अ) वृद्धौ (४-प.)
१६ मूष् (अ) स्तेये ( १ - प.) । १७ मुष् ( ) स्तेये (९)
१८ मुष् (अ.) खण्डने (४-प.) । १९ अर्च् (अ) पूजायाम् (१०-उ
उ. )
२० अर्च् (अ.) " (१-प.) । २१ चान्द्रमतेनात्मनेपदम्.
 
प्रतर्दने (१- प्र. ) ९
(१-उ.) । ११
 
)।
 
1917
 
27
 
तेजस्विनावधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute