This page has not been fully proofread.

सप्रस्फोटम्.
 
यश्र लालेयते बन्धून लालेय सखीलाः प्रजाः ॥
उडलन्ति यमालोक्य ललनानां मनोरथाः ॥ ३ ॥
मुति द्विषतां शौर्य तेषां दर्पंच मोटति ॥
यो मोटयति राष्ट्रेषु तत्कृताराममण्डपान् ॥ ४ ॥
मृधे मृणाति शत्रूणामश्वान् मृणति वारणान् ॥
शत्रुबाणैः पुरस्तस्य नैकोपि म्रियते परः ॥ १ ॥
प्रस्यन्ति रिपवो यस्मात् सन्ति परदारगाः ॥
यस्त्रासयति निःशेषान् भूयोऽनन्तरभूपतीन् ॥ ६ ॥
लेटत्यहालिकं दुर्गं कपाटानि च लोटते ॥
 

 
[७]
 
रिपूणां लोट्ययाजौ कुञ्जरागां घटाच यः ॥ ७ ॥
न तथा गईते" श्वानं श्रृगालच गर्हति ॥
गर्हयँत्येकमेवार्थन्यासिनं स नरं यथा ॥ ८ ॥
द्रांघेते वपुरत्यर्थं द्राते च निशागमे ॥
द्राखेति तृणतापन्नं यद्वियोगे मृगीदृशाम् ॥ ९ ॥
 
१ लल (अ) ईप्सायाम् (२०-आ. ) । २ ला (०) आदाने दाने च
(२-प.) णिजन्तस्येदं रूपम् स्नेहविपातनेऽयें लीलोनुक्लुका (२५९१)
विति लुक्। (ल्) । ३ ललू (अ) बिलासे (१-प. ) । ४ मुद् ( अ )
आक्षेपमर्दनबन्धनेषु (६-प.) । ५ मुटू (अ) मर्दने (१-प.) ।
६ मुट् (अ) संचूर्णने (१०–उ.) । ७ मृ (०) हिंसायाम्
(९--प. ) । ८ मृण (अ) मारणे (६-प.) । ९ मृ (ङ) प्राणत्याग
(४-आ) । १० त्रसू (ई) उद्देगे (४-प.) । ११ त्रस (ई) " (१-प.) । १२
त्रस् (अ) धारणे ग्रहणे वारणेच (१०-उ.) । १३ छुट् (अ) प्रतिघाते
विलोडने च ( ४-प.) । १४ लुट् (अ) प्रतिघाते (१-आ.) । १५ लुट्
(अ) भाषार्थ: (१०-प.) । १६ गई (अ) कुत्सायाम् (१ -आ.) ।
१७ गहू (अ) विनिन्दने (१०-प.) णिजभावः । १८ गई (अ) " (१०
उ.) १९ द्राधू (ॠ) सामर्थ्य (१- आ.) । २० द्राहू (ॠ) निद्राक्षये
( १ - आ. ) । २१ द्राख (ॠ) शोषणालमर्थयोः (१ - प. ) ।
 
FOUNDED
 
1917
 
॥ तंजस्वि नावधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute