This page has been fully proofread once and needs a second look.

तिप[‌‌‌‌‌‌‌^१]न्ति यस्य मातङ्गास्तेप[‌‌‌‌‌‌‌^२]न्ते च तुरङ्गमाः ॥
तेपय[‌‌‌‌‌‌‌^३]न्ति मनुष्याश्च युद्धे निम्नोन्नतां भुवम् ॥ ९६ ॥
 
तपसा भर्ज[‌‌‌‌‌‌‌^४]ते पापं तेजसाऽरींश्च भृज्ज[‌‌‌‌‌‌‌^५]ति ॥
<flag>कर्मेबजानि </flag> सर्वाणि योगाभ्यासा<flag>र्दृणो[‌‌‌‌‌‌‌^६]ति</flag> यः ॥ ९७ ॥
 
रि[‌‌‌‌‌‌‌^७]ङ्के रिपुर्यदाक्रान्तो धनैस्तन्त्रैश्च रेच[‌‌‌‌‌‌‌^८]ति ॥
रेचय[‌‌‌‌‌‌‌^९]न्ति च तन्नारीलोचनान्यश्रुवारिभिः ॥ १८ ॥
 
सत्यं वद[‌‌‌‌‌‌‌^१०]ति सर्वत्र सर्वस्य वद[‌‌‌‌‌‌‌^११]ते हितम् ॥
यन्न सत्यं न च हितं न वादय[‌‌‌‌‌‌‌^१२]ति तद्वचः ॥ ९९ ॥
 
सर्वोप्यर्जय[‌‌‌‌‌‌‌^१३]ति द्रव्यमात्मनः प्रीतिहेतवे ॥
अर्ज[‌‌‌‌‌‌‌^१४]ते शाश्वतीं कीर्तिं यश्चार्ज[‌‌‌‌‌‌‌^१५]ति जयं स्थिरम् ॥ १०० ॥
 
यस्य सङ्ग्रामशौण्डत्वं शाल[‌‌‌‌‌‌‌^१६]न्ते बाहुशालिनः ॥
शल[‌‌‌‌‌‌‌^१७]न्ति यगुणा दिक्षु शल[‌‌‌‌‌‌‌^१८]न्ते च सुरालयम् ॥ १०१ ॥
 
लक्षय[‌‌‌‌‌‌‌^१९]न्त्यस्थि लक्ष[‌‌‌‌‌‌‌^२०]न्ते मांसं लक्ष[‌‌‌‌‌‌‌^२१]न्ति शोणितम् ॥
यत्खड्गखण्डिताङ्गानां शत्रूणां कोणपा रणे ॥ <error></error> <fix>१०२ </fix>
 
 
 
[‌‌‌‌‌‌‌^१] तिप् (ॠ) क्षरणे (१ -आ.) अत्र चान्द्रादिमतेन परस्मैपदम् । संज्ञापूर्वकविधेरनित्यत्वोक्तेर्गुणाभाव इति बोध्यम् ।
[‌‌‌‌‌‌‌^२] तेप् " "
[‌‌‌‌‌‌‌^३] स एव णिजन्तः ।
[‌‌‌‌‌‌‌^४] <error>भ्रूजू </error> <fix>भृज् </fix>(ई) भर्जने (१-आ.) ।
[‌‌‌‌‌‌‌^५] भ्रस्ज् (अ) पाके (६-प.) संप्रसारणे सस्य श्चुत्वे, झलां जश् (५२)
इति जश्त्वेन जकारः ।
[‌‌‌‌‌‌‌^६] भृ ( ० ) ।
[‌‌‌‌‌‌‌^७] रिच् ( इर् ) विरेचने (७-उ.) ।
[‌‌‌‌‌‌‌^८] रिच् (अ) वियोजनसंपर्चनयोः (१०-प. ) । णिजभावः ।
[‌‌‌‌‌‌‌^९] " णिचो रूपम् ।
[‌‌‌‌‌‌‌^१०] वद् (अ) व्यक्तायां वाचि (१-प.) ।
[‌‌‌‌‌‌‌^११] वद् (अ) सन्देशवचने (१०-उ.) णिजभावः ।
[‌‌‌‌‌‌‌^१२] " णिचो रूपम् ।
[‌‌‌‌‌‌‌^१३] अर्ज् (अ) प्रतियत्ने <error>सम्यादनेच</error><fix> सम्पादने च</fix> (१० - उ.)
[‌‌‌‌‌‌‌^१४] ऋज् (अ) गतिस्थानार्जनोपार्जनेषु ( १ -आ.) ।
[‌‌‌‌‌‌‌^१५] अर्ज् (अ) अर्जने (१-प.)
[‌‌‌‌‌‌‌^१६] शाल् (ॠ) कत्थने (१ -आ) ।
[‌‌‌‌‌‌‌^१७] शल् (अ) आशुगमने (१ -प.) ।
[‌‌‌‌‌‌‌^१८] शल् (अ) चलनसंवरणयोः (१-आ.) ।
[‌‌‌‌‌‌‌^१९] ळक्ष् (आ) दर्शनाङ्कनयोः (१०– उ ) ।
[‌‌‌‌‌‌‌^२०] " ।
[‌‌‌‌‌‌‌^२१] " सामान्यणिज्विकल्पपक्षेण णिजभावो ज्ञेयः ।