This page has been fully proofread once and needs a second look.

चूर्य[‌‌‌‌‌‌‌^१]ते चोरवृत्तीन् यश्चूर्णय[‌‌‌‌‌‌‌^२]त्यरिमण्डलम् ॥
अवचूर्णय[‌‌‌‌‌‌‌^३]ते व्योम यत्सेनाप्रभवं रजः ॥ ८८ ॥
 
नोत्कण्ठ[‌‌‌‌‌‌‌^४]ते परद्रव्यं नोत्कण्ठ[‌‌‌‌‌‌‌^५]ति परस्त्रियम् ॥
यस्योत्कण्ठय[‌‌‌‌‌‌‌^६]ति स्वास्थ्यं धर्म एव मनः सदा ॥ ८९ ॥
 
यो मार्गय[‌‌‌‌‌‌‌^७]ति सन्मार्गं मार्ग[‌‌‌‌‌‌‌^८]ति क्षेममात्मनः ॥
यस्मिन् मृगय[‌‌‌‌‌‌‌^९]ते नित्यं यायजूको जनो धनम् ॥ ९० ॥
 
विशिन[‌‌‌‌‌‌‌^१०]ष्टि स्मरं मूर्त्या श्रिया शेषं विशेष[‌‌‌‌‌‌‌^११]ति ॥
विशेषय[‌‌‌‌‌‌‌^१२]ति यो वाग्मी वाचा वाचस्पतेर्वचः ॥ ९१ ॥
 
वितानय[‌‌‌‌‌‌‌^१३]ति यः कीर्ति वितन[‌‌‌‌‌‌‌^१४]त्यमलं यशः ॥
वितनो[‌‌‌‌‌‌‌^१५]ति रिपुस्त्रीणां हृदये मदनव्यथाम् ॥ ९२ ॥
 
क्लेश[‌‌‌‌‌‌‌^१६]ते न वृथा वाक्यं किश्य[‌‌‌‌‌‌‌^१७]ते न च निष्फलम् ॥
नेन्द्रियाणि विरुद्धेषु क्लिश्ना[‌‌‌‌‌‌‌^१८]ति विषयेषु यः ॥ ९३ ॥
 
हितं मितं च यो व[‌‌‌‌‌‌‌^१९] क्ति न वच[‌‌‌‌‌‌‌^२०]त्यप्रियं वचः ॥
नानादेशसमुत्पन्नां वाचय[‌‌‌‌‌‌‌^२१]त्यखिलां लिपिम् ॥ ९४ ॥
 
यस्य बर्ह[‌‌‌‌‌‌‌^२२]ति नित्यं श्रीर्दानशक्तिश्च बृंह[‌‌‌‌‌‌‌^२३]ति ॥
बृह[‌‌‌‌‌‌‌^२४]न्ति सिंहवद्यस्य द्विपा दुष्टारिवारणात् ॥ ९५ ॥
 
 
[‌‌‌‌‌‌‌^१] चूर् (ई) दाहे (४ -आ.) ।
[‌‌‌‌‌‌‌^२] (चूर्ण् ) (अ) प्रेरणे संकोचे च ( १०-उ. ) ।
[‌‌‌‌‌‌‌^३] "
[‌‌‌‌‌‌‌^४] कठ् (इ) [ कण्ठ् ] शोके आध्याने च (१-आ.)
[‌‌‌‌‌‌‌^५] कठ् (इ) [कण्ठ्] " ( १०-उ.) णिजभावे रूपम् ।
[‌‌‌‌‌‌‌^६] " णिचि रूपम् । उत्पूर्वोऽयमुत्कण्ठायामिति कौमुदीकारः ।
[‌‌‌‌‌‌‌^७] मार्ग् (अ) अन्वेषणे (१०-उ. ) ।
[‌‌‌‌‌‌‌^८] " (१०-प.) णिजभावे रूपम् ।
[‌‌‌‌‌‌‌^९] मृग् ( ० ) अन्वेषणे (१०-आ.)
[‌‌‌‌‌‌‌^१०] शिष् (लृ) विशेषणे (७-प.) ।
[‌‌‌‌‌‌‌^११] शिष् (अ) असर्वोपयोगे (१०-प.) णिजभावः ।
[‌‌‌‌‌‌‌^१२] " णिजन्तम् ।
[‌‌‌‌‌‌‌^१३] तन् (उ) श्रद्धोपकरणयोः उपसर्गाच्च दैर्घ्ये (१०-उ.) ।
[‌‌‌‌‌‌‌^१४] (१०-प.) णिजभावः ।
[‌‌‌‌‌‌‌^१५] तन् (उ) विस्तारे (८-उ. ) ।
[‌‌‌‌‌‌‌^१६] क्लेश् (अ) अव्यक्तायां वाचि (१-आ.) ।
[‌‌‌‌‌‌‌^१७] क्लिश् (अ) अनुतापे (४-आ.) ।
[‌‌‌‌‌‌‌^१८] क्लिश् (ऊ) विबाधने (९-प.) ।
[‌‌‌‌‌‌‌^१९] वच् (अ) परिभाषणे (२-प.) कुत्वम्
[‌‌‌‌‌‌‌^२०] " (१०-प.) णिजभावः ।
[‌‌‌‌‌‌‌^२१] " (१० -उ.) णिच् ।
[‌‌‌‌‌‌‌^२२] वृद्धौ (१-प.) ।
[‌‌‌‌‌‌‌^२३] बृह् (इ) [बृंह्] वृद्धौ <error>शद्वे </error> <fix>शब्दे </fix>च (१-प.) ।
[‌‌‌‌‌‌‌^२४] बृह् (ऊ) उद्यमने (६-प. )