This page has not been fully proofread.

॥ श्रीगणेशाय नमः ॥
 
अथ
 
श्रीहलायुध पण्डितविरचितं-
कविरहस्यम्
 
-*
 
[ अनुष्टुप् ]
 
जयन्ति मुरैजित्पादनखदीधितिदीपिकाः ॥
मोहान्धकारविध्वंसान्मुक्ति मार्गप्रदर्शिकाः ॥ १ ॥
[ इन्द्रवजा. ]
 
लोकेषु शौस्त्रेषु च ये प्रसिद्धाः काव्येषु ये सत्कविभिः प्रयुक्ताः ॥
ये चिन्ततां चित्तविनोदनाय शब्दानहं धातुमिरुद्धरामि ॥ २ ॥
[ अनुष्टुप् ]
 
एकार्था एकशब्दाच नानर्थाश्चैकवाचकाः ॥
सहशॉर्थाभिधानाश्च नानर्थाः सदृशाक्षराः ॥ ३ ॥
एकाँर्थास्तुल्यशब्दाच निबध्यन्तेऽत्र धातवः ॥
धातुपारायणाम्भोधिपारोत्तीर्णेधिया मया ॥ ४ ॥
 
अथ
 
प्रस्फोटः
 
[ अनुष्टुप्. ]
 
नत्वा नुत्वा हृदि स्मृत्वा गणेशं च गिरं गुरुम् ॥
मया कविरहस्यस्य प्रस्फोटः क्रियते स्फुटः ॥ १ ॥
 
(१) – मुरजित श्रीकृष्ण: । दीधितयः कान्तयः ता एव दीपिका:
दीपा इत्यर्थः । (२) द्रेकृ-घेकृ-होडृ-द्राडू-धाड़ममुखाः शास्त्रे प्रसिद्धा
अपि सत्कावीभः प्रायो न प्रयुक्ताः ।
(३) एकार्थी एकशब्दा अपि
केवलं गणभेदभिन्नाः यथा:-धूनोति धुनोति धुनाति-धुवति-धूनयत्यादयः ।
(४) गोपायति-गोपयति-गुप्यत्यादयः । ( ५ ) पू-पृण-प्रीङ् पृ-मीञादयः
(६) वस्ति-वासयति-वस्यत्यादयः ।
(८) भट्टहलायुधनाम्ना.
 
(७) लृष्-ड-जूरिमभृतय
 
FOUNDED
 
1917
 
॥ तेजस्विनावधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute