This page has not been fully proofread.


 
अधस्ता छध्वक्षरैस्तत्तद्धातुविशेषस्वरूपप्रस्फोटनार्थकं प्रस्फोटमलि-
खाम । प्रस्फोटे च प्रथमं धातुप्रयोगस्थापितमङ्कमुपन्यस्य धातुं
तदन्वनुबन्धमीदृश ( ) कुण्डलिकायां संलिख्यादेशादिकं चेदृश-
[ ] कुण्डलिकया प्रदर्श्य ततोऽर्थं च धातुपाठपठितं प्रकाश्याग्रत आ-
यतया कुण्डलिकया गणसूचकमङ्क पदसूचकमाद्याक्षरं च विन्यस्य
विशेषविधानादिज्ञापनं च कौमुदीगतपागिनीयसूत्राङ्कनिर्देशपूर्वकं य-
थायथं सुव्यक्तं व्यरचि। तद्यथाः-१ गुप् (ऊ) रक्षणे (१-प.) गुपू
धूपविच्छि (२३०३) इत्यायमव्ययः । एवमेव सर्वत्रोह्यम् ।
 
अयं च यद्यप्याङ्कतपूर्वः कैश्चित्तथापि तत्र बहूनि स्खलितानि पाठ-
प्रमादांच प्रस्फोटस्य दुर्बोधतामसाकल्यं चावलोक्यास्माभिरेतत्प्रका-
शनोपक्रमाय निबद्धः परिकरः । अस्मिथोपक्रमे पण्डितकुलोत्पन्न-
विष्णुशास्त्रिविनिर्मित धातु कोशः क्वचिदाङ्ग्लभौमकोशश्चास्माकं
साहायकमकरोत्. वर्णक्रमापठितधातुः पाणिनीयधातुपाठश्चास्माईरचि.
तवर्णक्रमानुगुणकारिकाकलापः प्रामाण्यविषये निःसदेहतासंपादने-
न बहूपकृतवान् ।
 
किंचैतादृशबहुनिबन्धपर्या लोचनं लेखनं चैकस्य भूयांसमायासं
कालातिपातं चावहेदिति विहितविज्ञप्तिसमभ्युपगमविधायिनोकृत्रिममि-
त्ररत्नोपमाः खटावकरोपाहूयाः हरिशास्त्रिणश्चैतन्निर्माणे भूरि साहाय्यं
व्यदधुरिति सप्रणयं विज्ञापयामः । इमं चोपक्रमं प्रवेशपरीक्षोन्मुखा
अन्ये च धातुप्रभेदेषु बम्भ्रम्यमाणधियः संस्कृतानां वाचामध्येतार छा
त्राः पठनपर्याालोचनादिभिः सफलयन्त्वित्याशास्महे ।
 
क्षीरसागरोपाव्ह ऐकनाथिर्वामनः
 
आ. मि. क.
 
NSTITUT
 
टीप:- १अयं च कारिकाकलापो 'धातुमाणमालेति विघृतललितनामधेयः
पृथगङ्कितोस्माभिरिति विदाङ्कर्वन्तु सन्तः ।
 
POONA
 
FOUNDED
1917
 
॥ तंजस्विनावधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute