This page has not been fully proofread.

८२
 
कुवलयानन्दः । [ अप्रस्तुतप्रशंसालंकार: २७
 
अङ्गानामकठोरता यदि प्रायैव सा मालती
कान्तिश्चेत्कमला किमत्र बहुना काषायमालम्बताम् ॥
 
अत्र नायिकागत्यादिषु वर्णनीयत्वेन प्रस्तुतेषु हंसादिगतगर्वशान्त्यादिरू-
पाण्यौचित्येन संभाव्यमानानि कार्याण्यभिहितानि । एतानि च पूर्वोदाहरण
इव न वस्तुकार्याणि किंतु तन्निरीक्षणकार्याणि ।
 
'लज्जा तिरश्वां यदि चेतसि स्यादसंशयं पर्वतराजपुत्र्याः ।
तं केशपाशं प्रसमीक्ष्य कुर्युर्वालप्रियत्वं शिथिलं चमर्यः ॥'
इत्युदाहरणान्तरे तथैव स्पष्टम् । अङ्गानामकठोरतेति तृतीयपादे तु
वर्णनीयाङ्गसौकुमार्यातिशयनिरीक्षणकार्यत्वमपि नाथक्षेप्यमालतीकठोरत्वे
विवक्षितं प्रतियोगिविशेषापेक्षकठोरत्वस्य तदकार्यत्वात्किंतु तदुद्वेरेव ।
इदमपि त्वदङ्गमार्दवे दृष्ट इत्यायुदाहरणान्तरे तथैव स्पष्टम् । अर्थस्य कार्य-
त्व इव बुद्धेः कार्यत्वेऽपि कार्यनिबन्धनत्वं न हीयत इति । एतादृशान्यपि
 
कामिन्या गतिसौकुमार्य दृष्टं चेदित्यध्याहारेणान्वयः । एवं संलापो भाषणं यदि
श्रुतस्तदा परभृतैः कोकिलैः वाचं यच्छतीति तथा तस्य भावो मौनमेव व्रतं
धार्यतां साध्यताम् । अकठोरता मार्दवं यदि दृश्यते तदा सा प्रसिद्धा मालती
दृषत्प्रायैव पाषाणतुल्यैव लक्ष्यत इति । कान्तिर्दृष्टा चेत्तदा कमला लक्ष्मीः का-
षायं वस्त्रमालम्बतामाश्रयतु । किमत्र बहुनोफेनेत्यन्वयः । गत्यादिषु गतिसौ-
न्दर्यादिषु । संभाव्यमानान्युत्प्रेक्षमाणानि । पूर्वोदाहरणाद्वैलक्षण्य माह-एता-
नीति ॥ कार्याणीत्यर्थः ॥ लज्जेति ॥ तिरवां पश्वादीनां चेतसि यदि लज्जा
स्यात्तदा चमर्यो गोमृगाः पर्वतराजपुत्र्यास्तं तथा रमणीयं केशपाशं प्रसमीक्ष्य
वालाः केशाः प्रिया यासां तास्तथा तत्त्वं शिथिलं कुर्युरित्यन्वयः ॥ तथैव
निरीक्षणकार्यत्वमेव ॥ अर्थाक्षेप्येति ॥ दृषत्प्रायत्वरूपार्थाक्षिप्तेत्यर्थः ।
इदमप्य प्रस्तुतबुद्धेः कार्यत्वमपि । अपिना प्रस्तुतबुद्धेः कारणत्वं प्रागुक्तं समु
चीयते । 'लदङ्गमार्दवे दृष्टे कस्य चित्ते न भासते । मालतीशशभृल्लेखाकदलीनां
कठोरता ॥" इति तुल्ययोगितायां प्रागुदाहृतम् । ननु कार्यरूपेणाप्रस्तुतेनार्थेन
यत्र प्रस्तुतं तत्कारणमवगम्यते सा कार्यनिबन्धना अप्रस्तुतप्रशंसोच्यते । न
चोदाहृतेषु तत्संभवः । मालतीकठोरत्वादेरप्रस्तुतस्यार्थस्याकार्यतायास्त्वयैव द-
शितत्वात् । एवं प्रस्तुतस्य कामिनीगति निष्ठसौन्दर्यातिशयादेर्निरीक्षणस्यैव का-
रणत्वेन स्वरूपतस्तस्याकारणत्वादित्यत आह - अर्थस्येति ॥ अयमाशयः ।
अर्थस्य प्रस्तुतत्वे सुतरां तद्बुद्धेरप्रस्तुतत्वात्कार्यलाच न तावदप्रस्तुतकार्यत्वां-
शासंभवः । अर्थत्वस्य प्रयोजनाभावेन लक्षणेऽनिवेशादव्यावर्तकत्वाच्च । नापि
प्रस्तुतस्य कारणत्वांशस्यासंभवः । स्वरूपतस्तस्या हेतुत्वेऽपि ज्ञानस्य हेतुत्वादिति ।
ननु गतिसौन्दर्यादेर्ज्ञानमेव हेतुर्न तु ज्ञायमानं गतिसौन्दर्यादि । तदभावेऽपि