This page has been fully proofread once and needs a second look.

अप्रस्तुतप्रशंसालंकारः२७ [ अलंकारचन्द्रिकासहितः । ८१
 
क्प्रत्यक्षसिद्धं पुण्यत्वेन निरूपितस्य लावण्यस्य ग्रहाणं निमित्तीकृत्य तस्य
चन्द्रसादृश्य- स्वरूपोपचरिततत्सौहार्दवति भगवन्मुखे न्यसनमुत्प्रेक्षितम् । य
द्यपि सुहृद्हुत्वे तावदल्पपुण्यसंक्रमो भवति तथापि अत्र सुहृदित्येकवचनेन
भगवन्मुखमेव चन्द्रस्य सुहृद्भूतं न मुखान्तराणि चन्द्रसादृश्यगन्धस्यास्पदा-
नीति भगवन्मुखस्येतरमुखेभ्यो व्यतिरेकोऽपि व्यञ्जितः । ततश्च तस्मिन्नेव
सर्वेषां स्वस्वावल्लावण्यविन्यसनोत्प्रेक्षणेन प्राग्वर्णितः प्रस्तुतोऽर्थः स्पष्टमेव

प्रतीयते । यद्यपि श्रुतौ सूर्यमण्डलप्रायनन्तरभावि विरजानदीक्रमणानन्तर-
मेव सुहृत्सुकृतसंक्रमणं श्रूयते तथापि शारीरकशास्त्रे तस्यार्थवशात्प्राग्भावः
स्थापित इति तदनुसारेण विन्यस्य मिहिरं प्रति यान्तीत्युक्तम् । कार्यनिब-
न्धना यथा
 
--
 
नाथ त्वदङ्घ्रिखधावनतोयलग्ना-
स्तत्कान्तिलेशकणिका जलधिं प्रविष्टाः ।
ता एव तस्य मथनेन घनीभवन्त्यो
नूनं समुद्रनवनीतपदं प्रपन्नाः ॥
 
त्र भगवत्पादाम्बुजक्षालनरूपायां दिव्यसरित्यलक्तकरसादिवल्लग्नानां
तया सह समुद्रं प्रविष्टानां तन्नखकान्तिलेशकणिकानां परिणामतया संभा-
व्यमाने समुद्रनवनीतपदवाच्येन चन्द्रेण कार्येण तन्नखकान्त्युत्कर्षः प्रतीयते ।
 

 
यथावा -
नाथ त्वदङ्गिनखधावनतोयलग्ना
-
स्तत्कान्तिलेशकणिका जलधिं प्रविष्टाः ।
 
ता एव तस्य मथनेन घनीभवन्त्यो
नूनं समुद्रनवनीतपदं प्रपन्नाः ॥
 
-
 

 
अस्याश्चेद्गतिसौकुमार्यमधुना हंसस्य गर्वैरलं

संलापो यदि धार्यतां परभृतैर्वाचंयमत्वव्रतम् ।
 

 
[commentary]
 
तस्य प्रिया ज्ञातयः सुकृतमुपयन्त्यप्रिया दुष्कृतम्' इति कौषीतकिश्रुतिः ।
'स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छतीति स वायुमागच्छति स तत्र विजिही ते
यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति' इति च श्रुतौ
स आदित्यमागच्छतीत्यनन्तरं 'स आगच्छति विरजां नदीं तां मनसैवात्येति
तत्सुकृतदुष्कृते विधुनुते' इति श्रुतौ ॥ शारीरकेति ॥ शरीरे भवः शारीरः
स एव शारीरक आत्मा तत्प्रतिपादक इत्यर्थः । अर्थवशात्प्रयोजनवशात् । पूर्
वं पापादित्यागाभावेऽर्चिरादिमार्गप्राप्तिपूर्वकब्रह्मप्राप्तेरसंसम्भवेन पाठक्रमस्यार्थक्रमेण

बाधादिति भावः ॥ स्थापित इति ॥ 'सांपराये तर्तव्याभावात्तथा ह्यन्यः' इति
तार्तीयाधिकरणे सिद्धान्तित इत्यर्थः ॥ नाथेति ॥ हे नाथ विष्णो, त्वच्चरणन-
खक्षालनजले गङ्गारूपे लग्नाः तेषां नखानां कान्तिलेशकणिकाः समुद्रं प्राप्ताः ।
ता एव च कणिकास्तस्य जलधेर्मथनेन सान्द्रतां प्राप्ता नूनं समुद्रसंसम्बन्धिनवनी-
तस्य चन्द्रस्य पदं प्राप्ताः । चन्द्ररूपेण परिणता इत्यर्थः ॥ तया तद्वारेण । तदित्य-
नन्तरं हेतुरिति शेषः । तद्धेतुनखकान्त्युत्कर्ष इत्यर्थः ॥ अस्या इति ॥ अस्याः
 

 
कुव० ९
 
4