2023-02-17 12:58:53 by ambuda-bot
This page has not been fully proofread.
८०
कुवलयानन्दः । अप्रस्तुतप्रशंसालंकारः २७
अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः ।
केसरी निष्ठुरक्षिप्तमृगयूथो मृगाधिपः ॥
अत्र कृष्णं प्रति बलभद्रवाक्ये मार्दवदूषणपरे पूर्वप्रस्तावानुसारेण क्रूर
एव ख्यातिभाग्भवति नतु मृदुरिति सामान्ये वक्तव्ये तत्प्रत्यायनार्थमप्रस्तुतो
विशेषोऽभिहितः । एवं बृहत्कथादिषु सामान्यतः कंचिदर्थं प्रस्तुत्य तद्विव-
रणार्थ मप्रस्तुतकथाविशेषोदाहरणेष्वियमेवाप्रस्तुतप्रशंसा द्रष्टव्या ॥ कारण-
निबन्धना यथा-
हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा ।
कृतमध्यबिलं विलोक्यते धृतगम्भीरखनीखनीलिम ।
अत्राप्राकरणिकेन्दुमण्डलगततयोत्प्रेक्ष्यमाणेन दमयन्तीवदन निर्माणार्थ
सारांशहरणेन तत्कार्यरूपं वर्णनीयतया प्रस्तुतं दमयन्तीवदनगतलोकोत्तरं
सौन्दर्य प्रतीयते । यथावा मदीये वरदराजस्तवे-
आश्रित्य नूनममृतयुतयः पदं ते
देहक्षयोपनतदिव्यपदाभिमुख्याः ।
लावण्यपुण्यनिचयं सुहृदि त्वदास्ये
विन्यस्य यान्ति मिहिरं प्रतिमासभिन्नाः ॥
-
अत्राप्राकरणिक चन्द्रकर्तृकतयोत्प्रेक्ष्यमाणेन लावण्यपुण्यनिचयविन्यासेन
कारणेन तत्कार्यमनन्तकोटिचन्द्र लावण्यशालित्वमनन्यमुखसाधारणं भगव-
न्मुखे वर्णनीयतया प्रस्तुतं प्रतीयते । तथाहि चन्द्रास्तावन्मन्त्रलिङ्गाद्वृद्धिक्षया-
भ्यामभेदेऽपि भेदाध्यवसायाद्वा प्रतिमासं भिन्नत्वेन वर्णिताः । तेनातीताश्चन्द्रा
अनन्तकोटय इति लब्धम् । कालस्यानादित्वात्सर्वेषां च तेषामाकाशसमाश्र-
यणं श्लेषमहिम्ना भगवच्चरणसमाश्रयत्वेनाध्यवसितम् । भगवच्चरणं प्रपन्नानां
च देहक्षयोपस्थितौ परमपदप्राध्याभिमुख्यं तदानीमेव स्वसुहृद्वर्गे स्वकीय
सुकृतस्तोमनिवेशनं ततः सूर्यमण्डलप्राप्तिश्चेत्येतत्सर्वं श्रुतिसिद्धमिति तद-
नुरोधेन तेषां देहक्षयकालस्यामावास्यारूपस्योपस्थितौ सूर्यमण्डलप्राप्तेः प्रा-
स्वर्णरेखा इति रूपकम् । तासां परीक्षणे निकषोपलः परोक्षमिति संज्ञितः कोऽप्य-
स्तीत्यन्वयः॥ अङ्केति॥चन्द्रमा मृगलाञ्छन इत्युच्यत इति शेषः । निष्ठुरं क्षिप्तानि
निरस्तानि मृगयूथानि येन तादृशः केसरी सिंहो मृगाधिप इत्युच्यत इति शेषः ॥
हृतेति ॥ धृतो गम्भीरायां खन्यां गर्ते स्वस्याकाशस्य नीलिमा येनेति मण्डल-
विशेषणम् ॥ आश्रित्येति ॥ हे देव, प्रतिमासं भिन्ना अमृतद्युतयश्चन्द्रास्ते
विष्णोः पदमाकाशमेव पदं चरणमाश्रित्य देहस्य क्षये उपनतं संपन्नं दिव्यपदस्या-
भिमुखत्वं येषामेवंभूताः संतस्त्वदास्यरूपे सुहृदि मित्रे नूनं लावण्य स्वरूपस्य
पुण्यस्य निचयं विन्यस्य मिहिरं सूर्यं प्रति यान्तीत्यन्वयः ॥ मन्त्रलिङ्गादिति ॥
'नवो नवो भवति जायमानः' इत्यादिमन्त्रसामर्थ्यादित्यर्थः । मन्त्रस्य मानान्तर -
सिद्धार्थानुवादकत्वादाह - वृद्धीति ॥ श्रुतीति ॥ 'तत्सुकृतदुष्कृते विधुनुते