This page has been fully proofread once and needs a second look.

अप्रस्तुतप्रशंसालंकारः २७ ] अलंकारचन्द्रिकासहितः ।
 
आबद्धकृत्रिमसटाजटिलांसभित्ति-

रारोपितो मृगपतेः पदवीं यदि श्वा ।

मत्तेभकुम्भतटपाटनलम्पटस्य
 

नादं करिष्यति कथं हरिणाधिपस्य ॥
 

 
अत्र शुनकस्य निन्दा निन्दनीयत्वेन प्रस्तुते तत्सरूपे कृत्रिमवेषव्यवहा-
रादिमात्रेण विद्वत्ताsभिनयवति वैधेये पर्यवस्यति । यथावा -
-
 
अन्तरिछद्राणि भूयांसि कण्टका बहवो बहिः ।
 

कथं कमलनालस्य मा भूवन्भङ्कुरा गुणाः ॥
 

 
अत्र कमलनालवृत्तान्त कीर्तनं तत्सरूपे बहिः खलेषु जाग्रत्सु भ्रातृपुत्रादि-
भिरन्तः कलहं कुर्वाणे पुरुषे पर्यवस्यति । एवंच लक्ष्यलक्षणयोः प्रशंसा-
शब्द: स्तुति निन्दास्वरूपाख्यानसाधारणकीर्तनमात्रपरो दृष्टव्यः । सामान्य-
निबन्धना यथा -
 
-
 
विधाय वैरं सामर्षे नरोऽरौ य उदासते ।

प्रक्षिप्योदर्चिषं कक्षे शेरते तेऽभिमारुतम् ॥
 
g
 

 
अत्र प्रागेव सामर्षे शिशुपाले रुक्मिणीहरणाद्वैरं दृढीकृतवता कृष्णेन
तस्मिन्नुदासितुमयुक्तमिति वक्तव्येऽर्थे प्रस्तुते तत्प्रत्यायनार्थं सामान्यमभि-
हितम् । यथावा -
-
 
सौहार्दस्वर्णरेखाणामुच्चावचभिदाजुपाषाम् ।

परोक्षमिति कोऽप्यस्ति परीक्षानिकवोपलः ॥
 

 
अत्र यदि त्वं प्रत्यक्षमिव परोक्षेऽपि मम हितमाचरसि तदा त्वमुत्तमः
सुहृदि ति विशेषे वक्तव्यत्वेन प्रस्तुते सामान्यमभिहितम् ॥ विशेषनिबन्धना
 

 
यथा -
-
 
[commentary]
 
दृशे ॥ आबद्धेति ॥ आबद्धा याः कृत्रिमाः सटाः स्कन्थलोमानि तैर्जटिला
व्याप्ता अंसभित्तिः स्कन्धदेशो यस्यैवंभूतः श्वा शुनको मृगपतेः सिंहस्य पदवीं
स्थानं यद्यारोपितः । तादृशसटायुक्तत्वेन सिंहसाम्यं प्रापित इत्यर्थः । तथापि
मत्तानामिभानां गजानां कुम्भतटस्य पाटने विदारणे लम्पटस्य व्यसनिनो हरिणा-
नामधिपस्य नादं सिंहनादं कथं करिष्यतीत्यर्थः ॥ अभिनयवत्यनुकुर्वतीति सप्त-
म्यन्तम् । वैधेये मूर्ख । 'मूर्खवैधेयबालिशाः' इत्यमरः ॥ अन्तरिति ॥ छिद्राणि
रन्ध्राणि दोषस्थानानि च । कण्टकाः शुकाः खलाच । भङ्गुराः भङ्गशीलाश्च ।
गुणाः सौभाग्यादयस्तन्तवश्च । अत्र स्तुतिनिन्दोदासीनस्वरूपाख्यानमात्रमिति
श्लिष्टविशेषणत्वमिति च भेदः ॥ एवंचेति ॥ उक्तोदाहरणेषु प्रस्तुतपरस्याप्र
स्तुतवर्णनस्य त्रिरूपत्वे सतीत्यर्थः ॥ विधायेति ॥ ये नरा मनुष्याः सक्रोधेऽरौ
शत्रौ वैरं विधायोदासीना भवन्ति ते कक्षे तृणे उदर्चिषमग्निं निक्षिप्याभिमारुतं
पवनाभिमुखं शेरते । निन्द्रां कुर्वन्तीत्यर्थः ॥ सौहार्देति ॥ सौहार्दानि मैत्राण्येव