2023-04-24 09:56:03 by Bharadwajraki
This page has been fully proofread twice.
इति केचित् । उभयमपि शब्दालंकार इत्यन्ये । उभयमप्यर्थालंकार इति स्वाभिप्रायः । एतद्विवेचनं तु चित्रमीमांसायां द्रष्टव्यम् ॥ ६४ ॥ ६५ ॥
--------------
अप्रस्तुतप्रशंसालंकारः २७
अप्रस्तुतप्रशंसा स्यात्सा यत्र प्रस्तुताश्रया ।
एकः कृती शकुन्तेषु योऽन्यं शक्रान्न याचते ॥ ६६ ॥
यत्राप्रस्तुतवृत्तान्तवर्णनं प्रस्तुतवृत्तान्तावगतिपर्यवसायि) तत्राप्रस्तुतप्रशंसालंकारः । अप्रस्तुतवृत्तान्तवर्णनेन प्रस्तुतावगतिश्च प्रस्तुताप्रस्तुतयोः सम्बन्धे सति भवति सम्बन्धश्च सारूप्यं सामान्यविशेषभावः कार्यकारणभावो वा सम्भवति । तत्र सामान्यविशेषभावे सामान्याद्विशेषस्य विशेषाद्वा सामाज्यस्थान्यस्यावगतौ द्वैविध्यम् । कार्यकारणभावेऽपि कार्यात्कारणस्य कारणाद्वा कार्यस्थायावगतौ द्वैविध्यम् । सारूप्यात्तु एको भेद इत्यस्याः पञ्च प्रकाराः ।
यदाहुः --
'कार्ये निमित्ते सामान्ये विशेष प्रस्तुते सति ।
तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा ॥' इति ।
तत्र सारूप्यनिबन्धनाऽप्रस्तुतप्रशंसोदाहरणं एकः कृतीति । अत्राप्रस्तुतचातकस्य प्रशंसा प्रशंसनीयत्वेन प्रस्तुते तत्सरूपे क्षुद्रेभ्यो याचनान्निवृत्ते मानिनि पर्यवस्यति । यथावा --
[commentary]
नार्थयोरेव श्लिष्टत्वादिति भावः ॥ केचिदलंकारसर्वस्वकारादयः ॥ उभयमपीति ॥ सभङ्गाभङ्गश्लेषद्वयमपीत्यर्थः । शब्दस्य परिवृत्त्यसहत्वेनान्वयव्यतिरेकाभ्यां तद्गतत्वावधारणादिति भावः । अन्ये मम्मटभट्टाः । नन्वभिप्रायस्यार्थालं-कारमध्यकथनादवगतस्यापि विशेषतः कथनमन्तरेण कथमुपपत्तिरित्याशङ्ख्क्याह -- एतदिति ॥ यद्यप्युत्प्रेक्षाग्रन्थानन्तरं चित्रमीमांसा न क्वापि दृश्यते तथाप्ययमाशय उन्नीयते । चमत्कारेऽर्थमुखप्रेक्षित्वादर्थालंकारत्वमिति । अनुप्रासयमकादेस्तु न चमत्कारेऽर्थमुखप्रेक्षित्वमिति न तेषामर्थालंकारत्वमपितु शब्दवैचित्र्याच्छब्दालंकारत्वमेवेति ॥ ६४ ॥ ६५ ॥ इति श्लेषप्रकरणम् ॥ २६ ॥
अप्रस्तुतेति ॥ सा अप्रस्तुतप्रशंसा । प्रस्तुताश्रया प्रस्तुतमाश्रयः प्राधान्येन तात्पर्यविषयो यस्यास्तथाभूता । प्रस्तुतपरमप्रस्तुतवर्णनमप्रस्तुतप्रशंसेत्यर्थः । एक इति ॥ कृती कुशलः । शकुन्तेषु पक्षिषु मध्ये । यश्चातकः शक्रादिन्द्रादन्यं न याचत इत्यर्थः ॥ कार्ये इति ॥ कार्ये प्रस्तुते सति तदन्यस्य कारणस्य वचः प्रतिपादनम् । निमित्ते कारणे प्रस्तुते सति तदन्यस्य कार्यस्य । एवं सामान्ये प्रस्तुते सति तदन्यस्य विशेषस्य । विशेष प्रस्तुते सति तदन्यस्य सामान्यस्य । तुल्ये प्रस्तुते तदन्यस्य तत्सदृशस्येत्यर्थः । अन्यशब्दस्य प्रतिसम्बन्धिपरत्वात् । तत्सरूपे तत्स-
--------------
अप्रस्तुतप्रशंसालंकारः २७
अप्रस्तुतप्रशंसा स्यात्सा यत्र प्रस्तुताश्रया ।
एकः कृती शकुन्तेषु योऽन्यं शक्रान्न याचते ॥ ६६ ॥
यत्राप्रस्तुतवृत्तान्तवर्णनं प्रस्तुतवृत्तान्तावगतिपर्यवसायि
'कार्ये निमित्ते सामान्ये विशेष प्रस्तुते सति ।
तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा ॥' इति ।
तत्र सारूप्यनिबन्धनाऽप्रस्तुतप्रशंसोदाहरणं एकः कृतीति । अत्राप्रस्तुतचातकस्य प्रशंसा प्रशंसनीयत्वेन प्रस्तुते तत्सरूपे क्षुद्रेभ्यो याचनान्निवृत्ते मानिनि पर्यवस्यति । यथावा --
[commentary]
नार्थयोरेव श्लिष्टत्वादिति भावः ॥ केचिदलंकारसर्वस्वकारादयः ॥ उभयमपीति ॥ सभङ्गाभङ्गश्लेषद्वयमपीत्यर्थः । शब्दस्य परिवृत्त्यसहत्वेनान्वयव्यतिरेकाभ्यां तद्गतत्वावधारणादिति भावः । अन्ये मम्मटभट्टाः । नन्वभिप्रायस्यार्थालं