This page has been fully proofread once and needs a second look.

कुवलयानन्दः । [
 
प्रस्तुतप्रशंसालंकार: २७
 
इति केचित् । उभयमपि शब्दालंकार इत्यन्ये । उभयमप्यर्थालंकार इति
स्वाभिप्रायः । एतद्विवेचनं तु चित्रमीमांसायां द्रष्टव्यम् ॥ ६४ ॥ ६५ ॥
 
७८
 

 
--------------
 
अप्रस्तुतप्रशंसालंकारः २७
 

 
अप्रस्तुतप्रशंसा स्यात्सा यत्र प्रस्तुताश्रया ।

एकः कृती शकुन्तेषु योऽन्यं शक्रान्न याचते ॥ ६६ ॥
RC. (

 
यत्राप्रस्तुतवृत्तान्तवर्णनं प्रस्तुतवृत्तान्तावगतिपर्यवसायि) तत्राप्रस्तुतप्रशं-
सालंकारः । अप्रस्तुतवृत्तान्तवर्णनेन प्रस्तुतावगतिश्च प्रस्तुताप्रस्तुतयोः सं-
सम्बन्धे सति भवति संसम्बन्धश्च सारूप्यं सामान्यविशेषभावः कार्यकारणभावो
वा संसम्भवति । तत्र सामान्यविशेषभावे सामान्याद्विशेषस्य विशेषाद्वा सामा-
ज्यस्थावगतौ द्वैविध्यम् । कार्यकारणभावेऽपि कार्यात्कारणस्य कारणाद्वा कार्य-
स्थावगतौ द्वैविध्यम् । सारूप्यात्तु एको भेद इत्यस्याः पञ्च प्रकाराः ।

 
यदाहुः -
 
-
 
'कार्ये निमित्ते सामान्ये विशेष प्रस्तुते सति ।
 

तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा ॥' इति ।
 

 
तत्र सारूप्यनिबन्धनाऽप्रस्तुतप्रशंसोदाहरणं एकः कृतीति । अत्राम-
प्रस्तुतचातकस्य प्रशंसा प्रशंसनीयत्वेन प्रस्तुते तत्सरूपे क्षुद्रेभ्यो याचनान्निवृत्ते
मानिनि पर्यवस्यति । यथावा-
--
 
[commentary]
 
नार्थयोरेव श्लिष्टत्वादिति भावः ॥ केचिदलंकारसर्वस्वकारादयः ॥ उभयम-
पीति ॥ सभङ्गाभङ्गश्लेषद्वयमपीत्यर्थः । शब्दस्य परिवृत्त्यसहत्वेनान्वयव्यति-
रेकाभ्यां तद्गतत्वावधारणादिति भावः । अन्ये मम्मटभट्टाः । नन्वभिप्रायस्यार्थालं-
कारमध्यकथनादवगतस्यापि विशेषतः कथनमन्तरेण कथमुपपत्तिरित्याशङ्ख्याह-
-- एतदिति ॥ यद्यप्युत्प्रेक्षाग्रन्थानन्तरं चित्रमीमांसा न क्वापि दृश्यते तथाप्यय-
माशय उन्नीयते । चमत्कारेऽर्थमुख प्रेक्षित्वादर्थालंकारत्वमिति । अनुप्रासयम-
कादेस्तु न चमत्कारेऽर्थमुखप्रेक्षित्वमिति न तेषामर्थालंकारत्वमपितु शब्दवै -
चित्र्याच्छब्दालंकारत्वमेवेति ॥ ६४ ॥ ६५ ॥ इति श्लेषप्रकरणम् ॥ २६ ॥
 

 
अप्रस्तुतेति ॥ सा अप्रस्तुतप्रशंसा । प्रस्तुताश्रया प्रस्तुतमाश्रयः प्राधान्येन
तात्पर्यविषयो यस्यास्तथाभूता । प्रस्तुतपरमप्रस्तुतवर्णनमप्रस्तुतप्रशंसेत्यर्थः ।
एक इति ॥ कृती कुशलः । शकुन्तेषु पक्षिषु मध्ये । यश्चातकः शक्रादिन्द्रादन्यं
न याचत इत्यर्थः ॥ कार्ये इति ॥ कार्ये प्रस्तुते सति तदन्यस्य कारणस्य वचः
प्रतिपादनंनम् । निमित्ते कारणे प्रस्तुते सति तदन्यस्य कार्यस्य । एवं सामान्ये प्रस्तुते
सति तदन्यस्य विशेषस्य । विशेष प्रस्तुते सति तदन्यस्य सामान्यस्य । तुल्ये प्रस्तुते
तदन्यस्य तत्सदृशस्येत्यर्थः । अन्यशब्दस्य प्रतिसंसम्बन्धिपरत्वात् । तत्सरूपे तत्स-