2023-02-17 12:58:53 by ambuda-bot
This page has not been fully proofread.
श्लेषालंकारः २६ ] अलंकारचन्द्रिकासहितः ।
अत्र द्वितीयान्तविशेषणसमर्पितार्थान्तराणां न शब्दसामर्थ्येन वधूभिर-
न्वयः विभक्तिभेदात् । नच विभक्तिभेदेऽपि तदन्वयाक्षेपकं साधर्म्यमिह
निबद्धमस्ति । यतः -
-
'एतस्मिन्नधिकपयः श्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः ।
वाल्मीकेररहितरामलक्ष्मणानां साधर्म्यं दधति गिरां महासरस्यः ॥'
७७
इत्यत्रेवाक्षिप्तश्लेषो भवेत् । सममित्येतत्तु क्रियाविशेषणं सहार्थत्वेनाप्यु -
पपन्नम्। वधूपु लिष्टविशेषणार्थान्वयात्प्राक् दागप्रतीतं साम्यं नालम्बते ।
तस्मादर्थसौन्दर्यबलादेव तदन्वयानुसंधानमिति गूढश्लेषः । तदनु तद्वलादेव
समशब्दस्य साधर्म्यार्थकल्पनमिति वाच्यस्यैवोपमालंकारस्याङ्गमयमित्यलं
प्रपञ्चेन । तस्मात्सिद्धं श्लेषत्रैविध्यम् । एवंच श्लेषः प्रकारान्तरेणापि द्विविधः
संपन्नः । उदाहरणगतेष्वब्ज की लालवाहिनीपत्यादिशब्देषु परस्परविलक्षणं
पदभङ्गमनपेक्ष्यानेकार्थकोडीकारादभङ्गः । सर्वदो माधवः यो गङ्गां हरिणा-
हितशक्तिनेत्यादिशब्देषु परस्परविलक्षणं पदभङ्गमपेक्ष्य नानार्थक्रोडीकारा-
त्सभङ्गश्लेष इति । तत्र सभङ्गश्लेपः शब्दालंकारः । अभङ्गश्लेषस्त्वर्थालंकार
टप्रान्ता यासां ततः । वधूपक्षे पताकाः सौभाग्यानि । 'पताका वैजयन्त्यां
स्यात्सौभाग्यनाटकाङ्कयोः' इति मेदिनी । रागमनुरागम् । विविक्ताः सतीत्वेन
पवित्राः नमत्रिवलीकाश्चेति ॥ नचेति ॥ यत इत्यस्य इत्यत्रेवाक्षिप्तः श्लेषो
भवेदित्यग्रेतनेनान्वयः ॥ एतस्मिन्निति ॥ तत्रैव रैवतकगिरिवर्णनम् । एतस्मि-
निगरौ महत्यः सरस्यः वाल्मीकेर्मुनेर्गिरां साधर्म्यं सादृश्यं दधति धारयन्ति ।
किंभूतानां गिराम् । अरहितौ संबद्धौ रामलक्ष्मणौ यासु तथाभूतानाम् । सरसी-
पक्षे अरहिताः संयुक्ताः रामाः पतयो यासां तथाभूता लक्ष्मणाः सारसवनिता
यासु ता इति । किंभूताः सरस्यः । अधिकां जलशोभां वहन्त्यः पवनसंभूतेन
वेगेन संक्षोभं तरङ्गाकुलंत्वं नीताः प्रापिताः । वाल्मीकिगिरस्तु । अधिकाः
कपयो यासु ताः पवनभुवा हनूमता वेगेन निजेन संक्षोभमुद्भटत्वं प्रापिता इति ॥
नन्वत्रापि सममित्यस्य तुल्यार्थत्वात्साधर्म्यनिबन्धोऽस्तीति कुतो न श्लेषाक्षेप-
स्तत्राह – सममिति ॥ द्राक् शीघ्रं साम्यं साम्यार्थकत्वम् । तथा चानुप-
पत्त्यभावात्तन्मूलक आक्षेपो न संभवतीति भावः । कथं तर्हि तदवगमस्तत्राह
—
अर्थसौन्दर्येति ॥ विशेषणानां वधूभिरन्वये चमत्कृतेरनुसंधानात्तदन्वय-
तात्पर्यग्रह इति भावः । तदनु श्लेषानुसंधानानन्तरम् । तद्वलाच्छ्रेषबलात् ॥
साधर्म्याति ॥ साधर्म्यरूपार्थस्येत्यर्थः । अर्थसाम्याभावेऽपि 'सकलकलं
पुरमेतज्जातं संप्रति सुधांशुबिम्ब मिव' इत्यादिवच्छन्दसाम्यस्य संभवादिति भावः ।
एवकारेण व्यङ्ग्यत्वव्यवच्छेदः । तत्र तयोर्मध्ये ॥ शब्देति ॥ जतुकाष्ठन्यायेन
शब्दयोरेव श्लिष्टत्वादिति भावः ॥ अति ॥ शब्दाभेदादेकवृन्तगत फलद्वयन्याये-
१ 'सक्तिनेति'.