This page has been fully proofread twice.

अत्र द्वितीयान्तविशेषणसमर्पितार्थान्तराणां न शब्दसामर्थ्येन वधूभिरन्वयः विभक्तिभेदात् । नच विभक्तिभेदेऽपि तदन्वयाक्षेपकं साधर्म्यमिह निबद्धमस्ति । यतः --
 
'एतस्मिन्नधिकपयः श्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः ।
वाल्मीकेररहितरामलक्ष्मणानां साधर्म्यं दधति गिरां महासरस्यः ॥'
 
इत्यत्रेवाक्षिप्तश्लेषो भवेत् । सममित्येतत्तु क्रियाविशेषणं सहार्थत्वेनाप्युपपन्नम्। वधूषू
श्लिष्टविशेषणार्थान्वयात्प्राक् द्रागप्रतीतं साम्यं नालम्बते । तस्मादर्थसौन्दर्यबलादेव तदन्वयानुसन्धानमिति गूढश्लेषः । तदनु तद्लादे समशब्दस्य साधर्म्यार्थकल्पनमिति वाच्यस्यैवोपमालंकारस्याङ्गमयमित्यलं प्रपञ्चेन । तस्मात्सिद्धं श्लेषत्रैविध्यम् । एवंच श्लेषः प्रकारान्तरेणापि द्विविधः सम्पन्नः । उदाहरणगतेष्वब्जकीलालवाहिनीपत्यादिशब्देषु परस्परविलक्षणं पदभङ्गमनपेक्ष्यानेकार्थकोडीकारादभङ्गः । सर्वदो माधवः यो गङ्गां हरिणा-
हित[^१]शक्तिनेत्यादिशब्देषु परस्परविलक्षणं पदभङ्गमपेक्ष्य नानार्थक्रोडीकारात्सभङ्गश्लेष इति । तत्र सभङ्गश्लेपःषः शब्दालंकारः । अभङ्गश्लेषस्त्वर्थालंकार
 
[commentary]
 
टप्रान्ता यासां ततः । वधूपक्षे पताकाः सौभाग्यानि । 'पताका वैजयन्त्यां स्यात्सौभाग्यनाटकाङ्कयोः' इति मेदिनी । रागमनुरागम् । विविक्ताः सतीत्वेन पवित्राः नमत्त्रिवलीकाश्चेति ॥ नचेति ॥ यत इत्यस्य इत्यत्रेवाक्षिप्तः श्लेषो भवेदित्यग्रेतनेनान्वयः ॥ एतस्मिन्निति ॥ तत्रैव रैवतकगिरिवर्णनम् । एतस्मिन्गिरौ महत्यः सरस्यः वाल्मीकेर्मुनेर्गिरां साधर्म्यं सादृश्यं दधति धारयन्ति । किंभूतानां गिराम् । अरहितौ सम्बद्धौ रामलक्ष्मणौ यासु तथाभूतानाम् । सरसीपक्षे अरहिताः संयुक्ताः रामाः पतयो यासां तथाभूता लक्ष्मणाः सारसवनितायासु ता इति । किंभूताः सरस्यः । अधिकां जलशोभां वहन्त्यः पवनसम्भूतेन वेगेन संक्षोभं तरङ्गाकुलंत्वं नीताः प्रापिताः । वाल्मीकिगिरस्तु । अधिकाः कपयो यासु ताः पवनभुवा हनूमता वेगेन निजेन संक्षोभमुद्भटत्वं प्रापिता इति ॥ नन्वत्रापि सममित्यस्य तुल्यार्थत्वात्साधर्म्यनिबन्धोऽस्तीति कुतो न श्लेषाक्षेस्तत्राह -- सममिति ॥ द्राक् शीघ्रं साम्यं साम्यार्थकत्वम् । तथा चानुपपत्त्यभावात्तन्मूलक आक्षेपो न सम्भवतीति भावः । कथं तर्हि तदवगमस्तत्राह -- अर्थसौन्दर्येति ॥ विशेषणानां वधूभिरन्वये चमत्कृतेरनुसन्धानात्तदन्वय-
तात्पर्यग्रह इति भावः । तदनु श्लेषानुन्धानानन्तरम् । तद्लाच्छ्रेलेषबलात् ॥ साधर्म्याति ॥ साधर्म्यरूपार्थस्येत्यर्थः । अर्थसाम्याभावेऽपि 'सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्ब- मिव' इत्यादिवच्छन्दसाम्यस्य सम्भवादिति भावः । एवकारेण व्यङ्ग्यत्वव्यवच्छेदः । तत्र तयोर्मध्ये ॥ शब्देति ॥ जतुकाष्ठन्यायेन शब्दयोरेव श्लिष्टत्वादिति भावः ॥ अर्थेति॥ शब्दाभेदादेकवृन्तगतफलद्वयन्याये-
 
[^१] 'सक्तिनेति'.