2023-04-24 09:36:01 by Bharadwajraki
This page has been fully proofread twice.
स्यैव व्यङ्ग्यत्वाभिप्रायम् । अप्रकृतार्थस्यापि शक्त्या प्रतिपाद्यस्याभिधेयत्वावश्यंभावेन व्यक्त्यनपेक्षणात् । यद्यपि प्रकृतार्थे प्रकरणबलाज्झटिति बुद्धिस्थे सत्येव पश्चान्नृपतितद्ग्राह्य- धनादिवाचिनां राजकरादिपदानामन्योन्यसंनिधानब-लात्तत्तद्विषयशक्त्यन्तरोन्मेषपूर्वकमप्रस्तुतार्थः स्फुरेत् । नचैतावता तस्य व्यङ्ग्यत्वम् । शक्त्या प्रतिपाद्यमाने सर्वथैव व्यक्त्यनपेक्षणात्पर्यवसिते प्रकृतार्थाभिधाने पश्चात्स्फुरति चेत् कामं गूढश्लेषो भवतु । अस्ति चान्यत्रापि गूढः श्लेषः ।
अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्वाः ।
सततमसुमतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति ।
मन्दमग्निमधुरर्यमोपदा दर्शितश्वयथु चाभवत्तमः ।
दृष्टयस्तिमिरजं सिषेविरे दोषमोषधिपतेरसन्निधौ ॥
अत्र हि समासोत्क्त्युदाहरणयोः प्राकरणिकेऽर्थे प्रकरणवशाज्झटिति बुद्धिस्थे
विशेषणसाम्यादप्रकृतोऽपि वृद्धवेश्यावृत्तान्तादिः प्रतीयते । तत्र समासोक्तिरभङ्गश्लेष इति सर्वेषामभिमतमेव । एवमन्यत्रापि गूढश्लेषे ध्वनिबुद्धिर्न कार्या । यथावा --
रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः ।
यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ॥
[commentary]
व्यक्तिमूलस्य सम्भवात् । अलंकारस्येत्यस्योपलक्षणत्वात् । अन्योन्यसन्निधानबला-
त्परस्परार्थसम्बन्ध्यर्थवाचकशब्दसमभिव्याहाररूपशब्दान्तर-
सन्निधिबलात् । तथा
चाप्रकृतेऽप्यभिधानियामकमस्तीति भावः । एतावता पूर्वापरभावमात्रेण तस्याप्रकृतार्थस्य । गूढश्लेष इति । गूढत्वं चाप्रकृतत्वेन द्वितीयार्थस्य शीघ्रमप्रत्ययात् ॥ अयमिति ॥ माघे- रैवतगिरिवर्णनम् । अयं गिरिस्तटीर्बिम्भर्तीत्यन्वयः । किंभूताः । अतिजरठा अत्यन्तं कठिनाः । प्रकामगुर्वीरतिमहत्यः । अलघुभिर्विलम्बमानैर्मेघैर्व्याप्ताः । निरन्तरं प्राणिनामगम्यरूपाः । परिणतास्तिर्यग्दन्तप्रहारिणो दिग्गजा यासु ताः । वृद्धवेश्यापक्षे तु जरठा जीर्णाः । पयोधराः कुचाः । अगम्याः सङ्गमायोग्याः । परिणते प्रकटे दिक्करिके यासां ता इत्यर्थः । दिक् वर्तुलं दशनक्षतम्। करिकानखक्षतम् । 'दिग्दृष्टं वर्तुलाकारं करिका नखरेखिका' इति यादवः ॥ मन्दमिति ॥ ओषधीनां पत्युञ्श्चन्द्रस्यासन्निधौ सत्यर्यमोपलाः सूर्यकान्ता मन्दीभूतमग्निं धृतवन्तः । तमः दर्शितः श्वयथुः पुष्टत्वं येन तथाभवत् । दृष्टयस्तिमिरजं दोषमान्ध्यं सिषेविरे । पक्षान्तरे ओषधिपतिर्वैद्यः । एवं मन्दाग्नित्वशोथतिमिराणि रोगविशेषाः । वृत्तान्तादिरित्यादिपदाद्रोगिवैद्यवृत्तान्तः परिगृह्यते ॥ अभङ्गश्लेष इति ॥ तथाच श्लेषस्थले व्यञ्जनाविरहादप्रकृते तत्स्वीकारे श्लेषव्यवहारः सर्वेषामनुपपन्नः स्यादिति भावः ॥ रम्या इति ॥ माघ एव द्वारकावर्णनम् । यस्यां द्वारकायां युवानो वधूभिः समं वलभीः प्रासादोपरितनगृहाण्यसेवन्त सेवितवन्तः । किंभूताः । रम्या इति हेतोः । पताका वैजयन्तीः प्राप्तवतीः । विविक्ता विजना इति हेतोः रागं रतिं वर्धयन्तीः । नमन्ति वलीकानि छादनप-
अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्वाः ।
सततमसुमतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति ।
मन्दमग्निमधुरर्यमोपदा दर्शितश्वयथु चाभवत्तमः ।
दृष्टयस्तिमिरजं सिषेविरे दोषमोषधिपतेरसन्निधौ ॥
अत्र हि समासो
विशेषणसाम्यादप्रकृतोऽपि वृद्धवेश्यावृत्तान्तादिः प्रतीयते । तत्र समासोक्तिरभङ्गश्लेष इति सर्वेषामभिमतमेव । एवमन्यत्रापि गूढश्लेषे ध्वनिबुद्धिर्न कार्या । यथावा --
रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः ।
यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ॥
[commentary]
व्यक्तिमूलस्य सम्भवात् । अलंकारस्येत्यस्योपलक्षणत्वात् । अन्योन्यसन्निधानबला
सन्निधिबलात् । तथा