This page has not been fully proofread.

कुवलयानन्दः ।
 
[ श्लेषालंकारः २६
 
स्यैव व्यङ्ग्यत्वाभिप्रायम् । अप्रकृतार्थस्यापि शक्त्या प्रतिपाद्यस्याभिधेयत्वा-
वश्यंभावेन व्यक्त्यनपेक्षणात् । यद्यपि प्रकृतार्थे प्रकरणबलाज्झटिति बुद्धिस्थे
सत्येव पश्चान्नृपतिता तद्ग्राह्य- धनादिवाचिनां राजकरा दिपदानामन्योन्यसंनिधानब-
लात्तत्तद्विषयशक्त्यन्तरोन्मेषपूर्वकमप्रस्तुतार्थः स्फुरेत् । नचैतावता तस्य व्यङ्ग्य-
त्वम् । शक्त्या प्रतिपाद्यमाने सर्वथैव व्यक्त्यनपेक्षणात्पर्यवसिते प्रकृतार्थाभि-
धाने पश्चात्स्फुरति चेत् कामं गूढश्लेषो भवतु । अस्ति चान्यत्रापि गूढः श्लेषः ।

 
अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्वाः ।

सततमसुमतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति ।

मन्दमग्निमधुरर्यमोपदा दर्शितश्वयथु चाभवत्तमः ।

दृष्टयस्तिमिरजं सिपेषेविरे दोषमोषधिपतेरसंसन्निधौ ॥
 

 
अत्र हि समासोत्त्युदाहरणयोः प्राकरणिकेऽर्थे प्रकरणवशाज्झटिति बुद्धिस्थे

विशेषणसाम्यादप्रकृतोऽपि वृद्धवेश्यावृत्तान्तादिः प्रतीयते । तत्र समासो-
क्तिरभङ्गश्लेष इति सर्वेषामभिमतमेव । एवमन्यत्रापि गूढश्लेषे ध्वनि बुद्धिर्न
कार्या । यथावा -
-
 
रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः ।

यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ॥
 

 
[commentary]
 
व्यक्तिमूलस्य संभवात् । अलंकारस्येत्यस्योपलक्षणत्वात् । अन्योन्यसंनिधानबला-

त्परस्परार्थसंबन्ध्यर्थवाचकशब्दसमभिव्याहाररूपशब्दान्तरसंनिधिबलात् । तथा

चाप्रकृतेऽप्यभिधानियामकमस्तीति भावः । एतावता पूर्वापरभावमात्रेण तस्या-

प्रकृतार्थस्य । गूढ श्लेष इति । गूढत्वं चाप्रकृतत्वेन द्वितीयार्थस्य शीघ्रमप्रत्ययात् ॥

अयमिति ॥ माघे रैवतगिरिवर्णनम् । अयं गिरिस्तटीबिंभर्तीत्यन्वयः । किंभूताः ।

अतिजरठा अत्यन्तं कठिनाः । प्रकामगुर्वीरतिमहत्यः । अलघुभिर्विलम्बमानै घै-

र्व्याप्ताः । निरन्तरं प्राणिनामगम्यरूपाः । परिणतास्तिर्यग्दन्तप्रहारिणो दिग्गजा

यासु ताः । वृद्धवेश्यापक्षे तु जरठा जीर्णाः । पयोधराः कुचाः । अगम्याः सङ्गमा-

योग्याः । परिणते प्रकटे दिक्करिके यासां ता इत्यर्थः । दिक् वर्तुलं दशनक्षतम्। करिका

नखक्षतम् । 'दिग्दृष्टं वर्तुलाकारं करिका नखरेखिका' इति यादवः ॥ मन्द-

मिति ॥ ओषधीनां पत्युञ्चन्द्रस्यासंनिधौ सत्यर्यमोपलाः सूर्यकान्ता मन्दीभूत-

मभि॑ि धृतवन्तः । तमः दर्शितः श्वयथुः पुष्टत्वं येन तथाभवत् । दृष्टयस्तिमिरजं

दोषमान्ध्यं सिषेविरे । पक्षान्तरे ओषधिपतिर्वैद्यः । एवं मन्दाग्नित्वशोथ तिमिराणि

रोग विशेषाः । वृत्तान्तादिरित्या दिपदाद्रोगिवैद्यवृत्तान्तः परिगृह्यते ॥ अभङ्गश्लेष

इति ॥ तथाच श्लेषस्थले व्यञ्जनाविरहादप्रकृते तत्स्वीकारे श्लेषव्यवहारः सर्वे

षामनुपपन्नः स्यादिति भावः ॥ रम्या इति ॥ माघ एव द्वारकावर्णनम् ।

यस्यां द्वारकायां युवानो वधूभिः समं वलभीः प्रासादोपरितनगृहाण्यसेवन्त

सेवितवन्तः । किंभूताः । रम्या इति हेतोः । पताका वैजयन्तीः प्राप्तवतीः ।

विविक्ता विजना इति हेतोः रागं रतिं वर्धयन्तीः । नमन्ति वलीकानि छादनप-