This page has been fully proofread twice.

अनेकार्थशब्दविन्यासः श्लेषः । सच त्रिविधः । प्रकृतानेकविषय: अप्रकृतानेकविषयः प्रकृताप्रकृतानेकविषयश्च । सर्वदेत्यादिक्रमेणोदाहरणानि । तत्र सर्वदो माधव इति स्तोतव्यत्वेन प्रकृतयोर्हरिहरयोः कीर्तनं प्रकृतश्लेषः । अब्जं कमलमब्जश्चन्द्रस्तयोरुपमानमात्रत्वेनाप्रकृतयोः कीर्तनमित्यप्रकृतश्लेषः । वाहिनीपतिः सेनापतिः समुद्रश्च । तत्र समितौ शस्त्रप्रहारोत्पतदुद्रुधिरस्य सेनापतेरेव वर्णनं प्रकृतमिति प्रकृताप्रकृतः श्लेषः । यथावा --
 
त्रातः काकोदरो येन द्रोग्धापि करुणात्मना ।
पूतनामारणाख्यातः स मेऽस्तु शरणं प्रभुः ॥
 
नीतानामाकुलीभावं लुब्धैर्भूरिशिलीमुखैः ।
सदृशे वनवृद्धानां कमलानां त्वदीक्षणे ॥
 
असावुदयमारूढः कान्तिमात्न्रक्तमण्डलः ।
राजा हरति लोकस्य हृदयं मृदुलैः करैः ॥ इति ।
 
तत्राद्ये स्तोतव्यत्वेन प्रकृतयो रामकृष्णयोः श्लेष: । द्वितीये उपमानत्वेनाप्रकृतयोः पद्महरिणयोः श्लेषः । तृतीये राजा हरति लोकस्येति चन्द्रवर्णनप्रस्तावे प्रकृतस्य प्रत्यग्रोदितचन्द्रस्याप्रकृतस्य नवाभिषिक्तस्य नृपतेः श्लेषः । यदत्र प्रकृताप्रकृतश्लेषोदाहरणे शब्दशक्तिमूलध्वनिमिच्छन्ति प्राञ्चः तत्प्रकृताप्रकृताभिधानमूलकस्योपमादेरलंकारस्य व्यङ्ग्यत्वाभिप्रायं नत्वप्रकृतार्थ-
 
[commentary]
 
तैरुद्गच्छत्कीलालं रुधिरं यस्य स वाहिनीपतिः सेनापतिः । तथा वाहिनीनां नदीनां पतिः
समुद्रश्चेति । पक्षे कीलालं जलम् । समितौ संग्रामे ॥ त्रात इति ॥ येन करुणायुक्तान्तःकरणेन द्रोहकर्तापि अदरो भयशून्यः काकस्त्रातो रक्षितो न तु हतः । स पवित्रनामा रणे ख्यातो विभू रामो मे शरणमस्त्वित्यर्थः । कृष्णपक्षे तु काकोदरः कालियसर्पः पूतनाया राक्षस्या मारणेन ख्यात इति शेषः ॥ नीतानामिति ॥ दयितां प्रति नायकोक्तिः । तव ईक्षणे नेत्रे कमलानां पद्मानां
हरिणानां च सदृशे स्त इत्यन्वयः । कीदृशानाम् । वने जले अरण्ये च वृद्धिं प्राप्तानाम् । तथा लुब्धैः लोभशीलैर्भूरिभिः शिलीमुखैः भ्रमरैराकुलीभावं व्याप्ततां नीतानामिति पद्मपक्षे । हरिणपक्षे तु लुब्वैःधैः व्याधैः कर्तृभिः । भूरिशिलीमुखैर्बाणैः करणभूतैः । आकुलीभावं चपलतां नीतानामित्यर्थः । 'मृगप्रभेदे कमलः' इति विश्वः ॥ असाविति ॥ उदयं शैलमभिवृद्धिं च, रक्तं रक्तवर्णमनुरक्तं च, मण्डलं बिम्बं देशश्, राजा चन्द्रो नृपश्च, मृदुलैरभिनवैरल्पैश्च, करैः किरणैर्ग्रीराह्यधनैश्च ॥ प्रत्योयग्रोदितेति ॥ अभिनवोदितेत्यर्थः । ननु प्रकरणेनाभिधाया नियम-
नादप्रकृतार्थस्य व्यङ्ग्यत्वमेवेति कथं श्लेष इत्याशङ्क्याह -- यदिति ॥ अलंकारस्येति ॥ नचैवं शब्दशक्तिमूलवस्तुध्वनेरुच्छेद इति वाच्यम् । 'शनिरशनिश्च तमुच्चैर्निहन्ति कुप्यसि नरेन्द्र यस्मै त्वम् । यत्र प्रसीदसि पुनः स भात्युदारोऽनुदारश्च ॥' इत्यत्र शनिविरुद्धरूपे प्रस्तुतेऽशनिशब्देनाभिधया प्रतीयमानेऽपि तन्मूलकस्य विरुद्धावपि त्वदनुवर्तनार्थमेकं कार्यं कुरुत इति वस्तुध्वनेरशनिशब्द-