2023-03-30 09:29:39 by Bharadwajraki
This page has been fully proofread once and needs a second look.
७५
त्रातः काकोदरो येन द्रोग्धापि करुणात्मना ।
पूतनामारणाख्यातः स मेऽस्तु शरणं प्रभुः ॥
नीतानामाकुलीभावं लुब्धैर्भूरिशिलीमुखैः ।
सदृशे वनवृद्धानां कमलानां त्वदीक्षणे ॥
असावुदयमारूढः कान्तिमात्रक्तमण्डलः ।
राजा हरति लोकस्य हृदयं मृदुलैः करैः ॥ इति ।
तत्राद्ये स्तोतव्यत्वेन प्रकृतयो रामकृष्णयोः श्लेष: । द्वितीये उपमानत्वेना
[commentary]
तैरुद्गच्छत्कीलालं रुधिरं यस्य स वाहिनीपतिः सेनापतिः । तथा वाहिनीनां
समुद्रश्चेति । पक्षे कीलालं जलम् । समितौ संग्रामे ॥ त्रात इति ॥
हरिणानां च सदृशे स्त इत्यन्वयः । कीदृशानाम् । वने जले अरण्ये च वृद्धिं
र्चा
नादप्रकृतार्थस्य व्यङ्ग्यत्वमेवेति कथं श्लेष इत्याशङ्कयाह
अ
-