2023-02-17 12:58:51 by ambuda-bot
This page has not been fully proofread.
७४
[ श्लेषालंकार: २६
कुवलयानन्दः ।
परिकराङ्कुरालंकारः २५
... भैप्राये विशेष्ये तु भवेत्परिकराङ्कुरः ।
चतुर्णी पुरुषार्थानां दाता देवश्चतुर्भुजः ॥ ६३ ॥
अत्र चतुर्भुज इति विशेष्यं पुरुषार्थचतुष्टयदानसामर्थ्याभिप्रायगर्भम् ।
यथावा-
फणीन्द्रस्ते गुणान्वक्तुं लिखितुं हैहयाधिपः ।
द्रष्टुमाखण्डलः शक्तः काहमेष व ते गुणाः ॥
फणीन्द्र इत्यादिविशेष्यपदानि सहस्रवदनाद्यभिप्रायगर्भाणि ॥ ६३ ॥
नेपालंकारः २६
नानार्थसंश्रयः श्लेषो वर्ण्यावयभ्याश्रितः ।
सर्वदो माधवः पायात्स योऽगं गामदीधरत् ॥ ६४ ॥
अब्जेन त्वन्मुखं तुल्यं हरिणाहितसँक्तिना ।
उच्चरद्भूरिकीलालः शुशुभे वाहिनीपतिः ॥ ६५ ॥
कृतं नतु निर्हेतुत्वदोषाभावमात्रतया विच्छित्तिविशेषस्यानुभवसिद्धत्वात्तथेहा-
पीति भावः ॥ ६२ ॥ इति परिकरालंकारप्रकरणम् ॥ २४ ॥
-
साभिप्राय इति ॥ अत्र विशेषणपदस्थाने विशेष्येति प्रक्षिप्य पूर्ववलक्षणं
बोध्यम् । तच्च परिकरेऽतिव्याप्तिवारणार्थम् । लक्ष्ये लक्षणं संगमयति- अत्रेति ॥
यद्यपि देवान्तरव्यावर्तकतया चतुर्भुज इति विशेषणं तथापि नृपादिसाधारण-
देवपदशक्तेर्विष्णौ नियमनेन विशेष्यप्रतीत्यौपयिकतया विशेष्यपदत्वमभिमतं
बोध्यम् । असंदिग्धमुदाहरति - फणीन्द्र इति ॥ राजानं प्रति कवेरुक्तिः ।
तव गुणान्वक्तुं फणीन्द्रः शेषोऽसमर्थ इत्यध्याहार्यम् । एवमग्रेऽपि । हैहयाधिपः
कार्तवीर्यः । आखण्डल इन्द्रः । उभयत्र गुणानित्यनुषज्यते । एष मर्त्यधर्मा
अहं क्व गुणाः केति कशब्दौ महदन्तरं सूचयतः । सहस्रवदनादीत्यादिना
सहस्रबाहुत्वसहस्रनयनत्वयोः संग्रहः । अत्र अनेकेषां विशेष्यपदानां तत्तदभि-
प्रायगर्भत्वं विशेषः ॥ ६३ ॥ इति परिकराङ्कुरप्रकरणम् ॥ २५ ॥
श्लेषं लक्षयति- नानार्थेति ॥ नानार्थस्य शब्दस्य संश्रयो योजनम् । श्लेष इति
लक्षणम् । वर्ण्यत्यादि विभागः । वर्ण्य चावर्ण्यं च वर्ण्यावर्ण्योभयं च एतत्रयात्रि-
तस्तद्विषयस्य इत्यर्थः । सर्वेति ॥ सर्वदः स माधवः पायात् । यः अगं गोवर्धन पर्वतं
गां पृथ्वीं च वराहावतारे धृतवानिति विष्णुपक्षे । हरपक्षे तु स उमाधवः सर्वदा
पायात् । यो गङ्गां वृतवानित्यर्थः । अब्जेनेति ॥ हरिणेन मृगेणाङ्करूपतया आहिता
कृता सक्तिः सङ्गो यस्येति चन्द्रपक्षे । हरिणा सूर्येणेति कमलपक्षे । उच्चरच्छत्रपा-
१ 'प्रायविशेषश्चेत् '. २ ' उभयाश्रय : '. ३ 'शक्तिना'.