2023-04-24 09:17:13 by Bharadwajraki
This page has been fully proofread twice.
परिकराङ्कुरालंकारः २५
साभि[^१]प्राये विशेष्ये तु भवेत्परिकराङ्कुरः ।
चतुर्णां पुरुषार्थानां दाता देवश्चतुर्भुजः ॥ ६३ ॥
अत्र चतुर्भुज इति विशेष्यं पुरुषार्थचतुष्टयदानसामर्थ्याभिप्रायगर्भम् ।
यथावा --
फणीन्द्रस्ते गुणान्वक्तुं लिखितुं हैहयाधिपः ।
द्रष्टुमाखण्डलः शक्तः क्वाहमेष क्व ते गुणाः ॥
फणीन्द्र इत्यादिविशेष्यपदानि सहस्रवदनाद्यभिप्रायगर्भाणि ॥ ६३ ॥
------------
श्लेषालंकारः २६
नानार्थसंश्रयः श्लेषो वर्ण्यावर्ण्यो[^२]भयाश्रितः ।
सर्वदो माधवः पायात्स योऽगं गामदीधरत् ॥ ६४ ॥
अब्जेन त्वन्मुखं तुल्यं हरिणाहितस[^३]क्तिना ।
उच्चरद्भूरिकीलालः शुशुभे वाहिनीपतिः ॥ ६५ ॥
[commentary]
कृतं नतु निर्हेतुत्वदोषाभावमात्रतया विच्छित्तिविशेषस्यानुभवसिद्धत्वात्तथेहापीति भावः ॥ ६२ ॥ इति परिकरालंकारप्रकरणम् ॥ २४ ॥
साभिप्राय इति ॥ अत्र विशेषणपदस्थाने विशेष्येति प्रक्षिप्य पूर्ववलक्षणं बोध्यम् । तच्च परिकरेऽतिव्याप्तिवारणार्थम् । लक्ष्ये लक्षणं संगमयति -- अत्रेति ॥ यद्यपि देवान्तरव्यावर्तकतया चतुर्भुज इति विशेषणं तथापि नृपादिसाधारणदेवपदशक्तेर्विष्णौ नियमनेन विशेष्यप्रतीत्यौपयिकतया विशेष्यपदत्वमभिमतं बोध्यम् । असंदिग्धमुदाहरति -- फणीन्द्र इति ॥ राजानं प्रति कवेरुक्तिः । तव गुणान्वक्तुं फणीन्द्रः शेषोऽसमर्थ इत्यध्याहार्यम् । एवमग्रेऽपि । हैहयाधिपः कार्तवीर्यः । आखण्डल इन्द्रः । उभयत्र गुणानित्यनुषज्यते । एष मर्त्यधर्मा अहं क्व गुणाःकेति कक्वेति क्वशब्दौ महदन्तरं सूचयतः । सहस्रवदनादीत्यादिना
सहस्रबाहुत्वसहस्रनयनत्वयोः संग्रहः । अत्र अनेकेषां विशेष्यपदानां तत्तदभिप्रायगर्भत्वं विशेषः ॥ ६३ ॥ इति परिकराङ्कुरप्रकरणम् ॥ २५ ॥
श्लेषं लक्षयति -- नानार्थेति ॥ नानार्थस्य शब्दस्य संश्रयो योजनम् । श्लेष इति लक्षणम् । वर्ण्ययेत्यादि विभागः । वर्ण्ययं चावर्ण्यं च वर्ण्यावर्ण्योभयं च एतत्त्रयाश्रितस्तद्विषयस्य इत्यर्थः । सर्वेति ॥ सर्वदः स माधवः पायात् । यः अगं गोवर्धनपर्वतं गां पृथ्वीं च वराहावतारे धृतवानिति विष्णुपक्षे । हरपक्षे तु स उमाधवः सर्वदा पायात् । यो गङ्गां वृतवानित्यर्थः । अब्जेनेति ॥ हरिणेन मृगेणाङ्करूपतया आहिता कृता सक्तिः सङ्गो यस्येति चन्द्रपक्षे । हरिणा सूर्येणेति कमलपक्षे । उच्चरच्छस्त्रपा-
[^१] 'प्रायविशेषश्चेत्'.
[^२] 'उभयाश्रय :यः'.
[^३] 'शक्तिना'
.
साभि[^१]प्राये विशेष्ये तु भवेत्परिकराङ्कुरः ।
चतुर्णां पुरुषार्थानां दाता देवश्चतुर्भुजः ॥ ६३ ॥
अत्र चतुर्भुज इति विशेष्यं पुरुषार्थचतुष्टयदानसामर्थ्याभिप्रायगर्भम् ।
फणीन्द्रस्ते गुणान्वक्तुं लिखितुं हैहयाधिपः ।
द्रष्टुमाखण्डलः शक्तः क्वाहमेष क्व ते गुणाः ॥
फणीन्द्र इत्यादिविशेष्यपदानि सहस्रवदनाद्यभिप्रायगर्भाणि ॥ ६३ ॥
------------
श्लेषालंकारः २६
नानार्थसंश्रयः श्लेषो वर्ण्यावर्ण्यो[^२]भयाश्रितः ।
सर्वदो माधवः पायात्स योऽगं गामदीधरत् ॥ ६४ ॥
अब्जेन त्वन्मुखं तुल्यं हरिणाहितस[^३]क्तिना ।
उच्चरद्भूरिकीलालः शुशुभे वाहिनीपतिः ॥ ६५ ॥
[commentary]
कृतं नतु निर्हेतुत्वदोषाभावमात्रतया विच्छित्तिविशेषस्यानुभवसिद्धत्वात्तथेहापीति भावः ॥ ६२ ॥ इति परिकरालंकारप्रकरणम् ॥ २४ ॥
साभिप्राय इति ॥ अत्र विशेषणपदस्थाने विशेष्येति प्रक्षिप्य पूर्ववलक्षणं बोध्यम् । तच्च परिकरेऽतिव्याप्तिवारणार्थम् । लक्ष्ये लक्षणं संगमयति -- अत्रेति ॥ यद्यपि देवान्तरव्यावर्तकतया चतुर्भुज इति विशेषणं तथापि नृपादिसाधारणदेवपदशक्तेर्विष्णौ नियमनेन विशेष्यप्रतीत्यौपयिकतया विशेष्यपदत्वमभिमतं बोध्यम् । असंदिग्धमुदाहरति -- फणीन्द्र इति ॥ राजानं प्रति कवेरुक्तिः । तव गुणान्वक्तुं फणीन्द्रः शेषोऽसमर्थ इत्यध्याहार्यम् । एवमग्रेऽपि । हैहयाधिपः कार्तवीर्यः । आखण्डल इन्द्रः । उभयत्र गुणानित्यनुषज्यते । एष मर्त्यधर्मा अहं क्व गुणाः
सहस्रबाहुत्वसहस्रनयनत्वयोः संग्रहः । अत्र अनेकेषां विशेष्यपदानां तत्तदभिप्रायगर्भत्वं विशेषः ॥ ६३ ॥ इति परिकराङ्कुरप्रकरणम् ॥ २५ ॥
श्लेषं लक्षयति -- नानार्थेति ॥ नानार्थस्य शब्दस्य संश्रयो योजनम् । श्लेष इति लक्षणम् । वर्ण्
[^१] 'प्रायविशेषश्चेत्'.
[^२] 'उभयाश्र
[^३] 'शक्तिना'