This page has not been fully proofread.

परिकरालंकारः २४ ] अलंकारचन्द्रिकासहितः ।
 
७३
 
व्यविशेषात्परिकर इत्यलंकारमध्ये परिगणित इत्याहुः । वस्तुतस्त्वनेक विशे-
पणोपन्यास एव परिकर इति न नियमः । श्लेपयमकादिष्वपुष्टार्थदोपाभावेन
तत्रैकस्यापि विशेषणस्य साभिप्रायस्य विन्यासे विच्छित्तिविशेष सद्भावात्परि-
करोपपत्तेः । यथा—
 
अतियजेत निजां यदि देवतामुभयतत्र्यवते जुपतेऽप्यघम् ।
क्षितिभृतैव सदैवतका वयं वनवताऽनवता किमहिद्रुहा ॥
 
अत्र हि पुरुहूतपूजोयुक्तान्नन्दादीन्प्रति भगवतः कृष्णस्य वाक्ये गोवर्ध-
नगिरिरेव चास्माकं रक्षकत्वेन दैवतमिति स एव पूजनीयो न त्वरक्षकः पु-
रुहूत इत्येवंपरं वनवतेति गोवर्धन गिरेर्विशेषणं काननवत्त्वान्निर्झरा दिम-
त्त्वाच्च पुष्पमूलफलतृणादिभिरारण्यकानामस्माकमस्मद्धनानां गवां चायमेव र
क्षक इत्यभिप्रायगर्भम् । एवमत्र साभिप्रायैक विशेषणविन्यासस्यापि विच्छि-
त्तिविशेषवशादस्य साभिप्रायस्यालंकारत्वसिद्धावन्यत्रापि सुधांशुकलितोत्तं-
स इत्यादौ तस्यात्मलाभो न निवार्यते । अपिच एकपदार्थहेतुकं काव्यलिङ्ग-
मलंकार इति सर्वसंमतम् । तद्वदेकस्यापि विशेषणस्य साभिप्रायस्यालंका-
रत्वं युक्तमेव ॥ ६२ ॥
 

 
शेति ॥ साभिप्रायेत्यर्थः ॥ दोषाभावेनेति ॥ अपुष्टार्थत्वस्य दोषत्वाभावे-
नेत्यर्थः । उद्भटालंकारसंपत्त्या सहृदयवैमुख्य रूपदूषकताबीजाभावादिति भावः ।
विच्छित्तिश्चमत्कृतिः । परिकरत्वोपपत्तेः परिकरस्यालंकारत्वोपपत्तेः । तत्र दोष-
स्याप्रसत्त्या विच्छित्तिविशेषस्य तदभावप्रयुक्तत्वासंभवात्तत्प्रयोजकमलंकारत्व-
मावश्यकमिति भावः । यमकस्थले उदाहरति — तथेति ॥ अतीति ॥ निजां
देवतामतिक्रम्य यदि यजेत अर्थाद्देवतान्तरं पूजयेत् तदोभयतो लोकद्वयाच्यवते
भ्रश्यति । अघं पापमपि जुषते सेवते । प्राप्नोतीति यावत् । का निजा देवता
तत्राह । वयं वनवता प्रशस्तवनयुक्तेन क्षितिभृता गोवर्धनगिरिणैव सदैवतका दैव-
तसहिताः । स एवास्माकं दैवतमित्यर्थः । अनवता अरक्षकेण अहिद्रुहा इन्द्रेण ।
किं प्रयोजनमिति शेषः । अहिर्वृत्रासुरः । 'अहिर्वृत्रासुरे सर्पे' इति विश्वः ।
नन्वेवं सति तत्रैवालंकारता स्यान्न तु सुधांशुकलितोत्तंस इत्यादावत आह-
एवमिति ॥ विच्छित्तिविशेषेति दोषाभावप्रयुक्त विच्छित्तिव्यावृत्तेत्यर्थः । ननु
यमकादावपि तादृशविच्छित्तिविशेषे मानाभावः । विच्छित्तिसामान्यं तु पर्युद-
स्तदोषाभावेनाप्टुपपन्नम् । आपत्कालपर्युदस्तस्य मृच्छौचहीनतादोषस्याभावे-
नेव तदानीमपि मृच्छौचकर्तुरतिशयाधानमिति नालंकारत्वसिद्धिरित्यत आह -
अपिचेति ॥ 'भस्मोद्धूलन भद्रमस्तु भवते रुद्राक्षमाले शुभं हा सोपानपर-
म्परे गिरिसुताक्रान्तालयालंकृते । अद्याराधनतोषितेन विभुना युष्मत्सपर्या सुखा-
लोकोच्छेदिनि भोक्षनामनि महामोहे निलीयामहे ॥' इत्यादौ मोक्षस्य महामो-
हत्वे सुखालोकोच्छेदिनीत्येक
पदार्थो हेतुरिति काव्यलिङ्गमलंकारत्वेन यथा स्वी
 
-