This page has been fully proofread twice.

त्र्यविशेषात्परिकर इत्यलंकारमध्ये परिगणित इत्याहुः । वस्तुतस्त्वनेकविशेषणोपन्यास एव परिकर इति न नियमः । श्लेषयमकादिष्वपुष्टार्थदोषाभावेन तत्रैकस्यापि विशेषणस्य साभिप्रायस्य विन्यासे विच्छित्तिविशेषसद्भावात्परिकरोपपत्तेः । यथा --
 
अतियजेत निजां यदि देवतामुभयतश्च्यवते जुषतेऽप्यघम् ।
क्षितिभृतैव सदैवतका वयं वनवताऽनवता किमहिद्रुहा ॥
 
अत्र हि पुरुहूतपूजोद्युक्तान्नन्दादीन्प्रति भगवतः कृष्णस्य वाक्ये गोवर्धनगिरिरेव चास्माकं रक्षकत्वेन दैवतमिति स एव पूजनीयो न त्वरक्षकः पुरुहूत इत्येवंपरं वनवतेति गोवर्धन गिरेर्विशेषणं काननवत्त्वान्निर्झरादिमत्त्वाच्च पुष्पमूलफलतृणादिभिरारण्यकानामस्माकमस्मद्धनानां गवां चायमेव रक्षक इत्यभिप्रायगर्भम् । एवमत्र साभिप्रायैकविशेषणविन्यासस्यापि विच्छित्तिविशेषवशादस्य साभिप्रायस्यालंकारत्वसिद्धावन्यत्रापि सुधांशुकलितोत्तंस इत्यादौ तस्यात्मलाभो न निवार्यते । अपिच एकपदार्थहेतुकं काव्यलिङ्गमलंकार इति सर्वसम्मतम् । तद्वदेकस्यापि विशेषणस्य साभिप्रायस्यालंकारत्वं युक्तमेव ॥ ६२ ॥
 
---------------
 
[commentary]
 
शेति ॥ साभिप्रायेत्यर्थः ॥ दोषाभावेनेति ॥ अपुष्टार्थत्वस्य दोषत्वाभावेनेत्यर्थः । उद्भटालंकारसंपत्त्या सहृदयवैमुख्यरूपदूषकताबीजाभावादिति भावः । विच्छित्तिश्चमत्कृतिः । परिकरत्वोपपत्तेः परिकरस्यालंकारत्वोपपत्तेः । तत्र दोषस्याप्रसक्त्या विच्छित्तिविशेषस्य तदभावप्रयुक्तत्वासम्भवात्तत्प्रयोजकमलंकारत्वमावश्यकमिति भावः । यमकस्थले उदाहरति -- तथेति ॥ अतीति ॥ निजां देवतामतिक्रम्य यदि यजेत अर्थाद्देवतान्तरं पूजयेत् तदोभयतो लोकद्वयाच्च्यवते भ्रश्यति । अघं पापमपि जुषते सेवते । प्राप्नोतीति यावत् । का निजा देवता
तत्राह । वयं वनवता प्रशस्तवनयुक्तेन क्षितिभृता गोवर्धनगिरिणैव सदैवतका दैवतासहिताः । स एवास्माकं दैवतमित्यर्थः । अनवता अरक्षकेण अहिद्रुहा इन्द्रेण । किं प्रयोजनमिति शेषः । अहिर्वृत्रासुरः । 'अहिर्वृत्रासुरे सर्पे' इति विश्वः । नन्वेवं सति तत्रैवालंकारता स्यान्न तु सुधांशुकलितोत्तंस इत्यादावत आह -- एवमिति ॥ विच्छित्तिविशेषेति दोषाभावप्रयुक्तविच्छित्तिव्यावृत्तेत्यर्थः । ननु यमकादावपि तादृशविच्छित्तिविशेषे मानाभावः । विच्छित्तिसामान्यं तु पर्युदस्तदोषाभावेनाप्युपपन्नम् । आपत्कालपर्युदस्तस्य मृच्छौचहीनतादोषस्याभावेनेव तदानीमपि मृच्छौचकर्तुरतिशयाधानमिति नालंकारत्वसिद्धिरित्यत आह -- अपिचेति ॥ 'भस्मोद्धूलन भद्रमस्तु भवते रुद्राक्षमाले शुभं हा सोपानपरम्परे गिरिसुताक्रान्तालयालंकृते । अद्याराधनतोषितेन विभुना युष्मत्सपर्यासुखालोकोच्छेदिनि मोक्षनामनि महामोहे निलीयामहे ॥' इत्यादौ मोक्षस्य महामोहत्वे सुखालोकोच्छेदिनीत्येकपदार्थो हेतुरिति काव्यलिङ्गमलंकारत्वेन यथा स्वी-