This page has been fully proofread twice.

चित्रार्थां न बृहत्कथामचकथं सुत्राम्णि नासं गुरु-
र्देव त्वद्गुणवृन्दवर्णनमहं कर्तुं कथं शक्नुयाम् ॥
 
अत्र श्रुतिगणं न व्यास्थमित्यादीनि विशेषणानि स्वस्मिन्व्यासाद्यसाधारण-कार्यकर्तृत्वनिषेधमुखेन नाहं व्यास इत्याद्यभिप्रायगर्भाणि । तत्राद्ययोरुदाहरणयोरेकैकं विशेषणं, समनन्तरयोः प्रत्येकं बहूनि विशेषणानि । तत्रापि प्रथमोदाहरणे सर्वाणि विशेषणान्येकाभिप्रायगर्भाणि पदार्थरूपाणि च, द्वितीयोदाहरणे भिन्नाभिप्रायगर्भाणि वाक्यार्थरूपाणि चेति भेदः । एतेषु व्यङ्ग्यार्थसद्भावेऽपि न ध्वनिव्यपदेशः । शिवस्य तापहरणे, मन्मथस्य कैमुतिकन्यायेन सर्वधन्विधैर्यभञ्जकत्वे, शरीरसंरक्षणार्थ पापमाचरतां मूढत्वे, स्वस्य वर्णनीयराजगुणकथनाशक्तत्वे च वाच्य एवोपस्कारकत्वात् । अतएव व्य-ङ्ग्यस्य वाच्यपरिकरत्वात्परिकर इति नामास्यालंकारस्य । केचित्तु निष्प्रयो-
जनविशेषणोपादानेऽपुष्टार्थत्वदोषस्योक्तत्वात्सप्रयोजनत्वं विशेषणस्य दोषाभावमात्रं न कश्चिदलंकारः । एकनिष्ठतादृशानेक विशेषणोपन्यासे परं वैचि -
 
[commentary]
 
राजन्, त्वद्गुणानां वृन्दस्य समूहस्य वर्णनं कर्तुमहं कथं शक्नुयां शक्तो भवेयमित्यन्वयः । कुतस्तत्राह । यतोऽहमेकरूपतया स्थितं वेदसमूहं न व्यास्थमनेकशाखारूपेण न विस्तारितवान् । तथाच तत्कर्ता व्यासो न भवामीति व्यज्यते । एवमग्रेऽपि । वल्मीकतो वल्मीकाज्जन्मास्यास्तीति जन्मी न भवामीति शेषः । तथाच नाहं वाल्मीकिरिति । अच्युतस्य नाभौ नाभवं नोत्पन्न इत्यनेन नाहं चतुर्मुख इति । सुमहद्भाष्यं महाभाष्यं नाभाषिषं न भाषितवानित्यनेन नाहं सहस्रजिह्वः शेष इति । चित्रो विचित्रोऽर्थो यस्यास्तां बृहत्काथां न अचकथं न कथितवानित्यनेन नाहं तद्वक्ता शिवो गुणाढ्यो वेति । सुत्राम्णि इन्द्रे गुरुरुपदेश- को नासमित्यनेन नाहं वाक्पतिरिति च व्यज्यते । उक्तेषूदाहरणेषु वैलक्षण्यं दर्शयति --तत्रेत्यादिना ॥ एकैकमेकस्य विशेष्यस्यैकमेव । समनन्तरयोरनन्तरोक्तयोः प्रत्येकमेकं विशेष्यं प्रति । तत्रापि तयोर्मध्येऽपि । एकाभिप्रायगर्भाण्येकार्थाभिप्रायपूर्वकाणि ॥ वाक्यार्थेति ॥ न व्यास्थमित्यादिनिषेधवाक्यार्थषट्कस्योक्तरीत्या हेतुत्वेनान्तिमवाक्यार्थे विशेषणत्वादिति भावः । एतेषु उक्तोदाहरणेषु । ध्वनिव्यपदेशो ध्वनिव्यवहारः । तत्र हेतुमाह -- तापहरण इत्यादिना ॥ तापहरणे इत्यादिसप्तम्यन्तचतुष्टयस्य वाच्य इत्यनेन सामानाधिकरण्येनान्वयः ॥
उपस्कारकत्वादिति ॥ तथा चापराङ्गरूपगुणीभूतव्यङ्ग्यभेदत्वान्न ध्वनिव्यवहार इति भावः । नन्वेवमपि यथाश्रुतलक्षणस्य निःशेषच्युतेत्यादिध्वनावतिव्याप्तिरित्यत आह -- अतएवेति ॥ वाच्योपस्कारकत्वादेवेत्यर्थः । परिकरत्वादङ्गत्वात् । तथाच परिकरपदमहिम्ना प्रकृतार्थोपपादकत्वस्य व्यङ्ग्यविशेषणस्य लाभान्नातिव्याप्तिरिति भावः । अपुष्टार्थेति भावप्रधानम् ॥ उक्तत्वादिति ॥ 'अर्थोऽपुष्टः कष्टो व्याहतपुनरुक्तदुष्क्रमग्राम्याः' इत्यादिनालंकारिकैरुक्तत्वादित्यर्थः । कथं तर्हि तैरेवास्यालंकारत्वेन कथनमत आह -- एकनिष्ठेति ॥ तादृ-