This page has been fully proofread once and needs a second look.

७२
 
कुवलयानन्दः । [ परिक
चित्रालंकारः २४
 
चित्रार्था
र्थां न बृहत्कथामचकथं सुत्राम्णि नासं गुरु-

र्
देव त्वद्गुणवृन्दवर्णनमहं कर्तुं कथं शक्नुयाम् ॥
 

 
अत्र श्रुतिगणं न व्यास्थमित्यादीनि विशेषणानि स्वस्मिन्व्यासाद्यसाधारण-
कार्यकर्तृत्वनिषेधमुखेन नाहं व्यास इत्याद्यभिप्रायगर्भाणि । तत्राद्ययोरुदाह-
रणयोरेकैकं विशेषणं, समनन्तरयोः प्रत्येकं बहूनि विशेषणानि । तत्रापि
प्रथमोदाहरणे सर्वाणि विशेषणान्येकाभिप्रायगर्भाणि पदार्थरूपाणि च, द्वि-
तीयोदाहरणे भिन्नाभिप्रायगर्भाणि वाक्यार्थरूपाणि चेति भेदः । एतेषु व्य-
ङ्ग्यार्थसद्भावेऽपि न ध्वनिव्यपदेशः । शिवस्य तापहरणे, मन्मथस्य कैमुति-
कन्यायेन सर्वधन्विधैर्यभञ्जकत्वे, शरीरसंरक्षणार्थ पापमाचरतां मूढत्वे, स्व-
स्य वर्णनीयराजगुणकथनाशक्तत्वे च वाच्य एवोपस्कारकत्वात् । अतएव व्य-
ङ्ग्यस्य वाच्यपरिकरत्वात्परिकर इति नामास्यालंकारस्य । केचित्तु निष्प्रयो-

जनविशेषणोपादानेऽपुष्टार्थत्वदोषस्योक्तत्वात्सप्रयोजनत्वं विशेषणस्य दोषा-
भावमात्रं न कश्चिदलंकारः । एकनिष्ठतादृशानेक विशेषणोपन्यासे परं वैचि -
 

 
[commentary]
 
राजन्, त्वद्गुणानां वृन्दस्य समूहस्य वर्णनं कर्तुमहं कथं शक्नुयां शक्तो भवेय-
मित्यन्वयः । कुतस्तत्राह । यतोऽहमेकरूपतया स्थितं वेदसमूहं न व्यास्थमनेक
शाखारूपेण न विस्तारितवान् । तथाच तत्कर्ता व्यासो न भवामीति व्यज्यते ।
एवमग्रेऽपि । वल्मीकतो वल्मीकाज्जन्मास्यास्तीति जन्मी न भवामीति शेषः ।
तथाच नाहं वाल्मीकिरिति । अच्युतस्य नाभौ नाभवं नोत्पन्न इत्यनेन नाहं
चतुर्मुख इति । सुमहद्भाष्यं महाभाष्यं नाभाषिषं न भाषितवानित्यनेन नाहं
सहस्रजिह्वः शेष इति । चित्रो विचित्रोऽर्थो यस्यास्तां बृहत्काथां न अचकथं न
कथितवानित्यनेन नाहं तद्वक्ता शिवो गुणाढ्यो वेति । सुत्रामिणम्णि इन्द्रे गुरुरुपदेश-
को नासमित्यनेन नाहं वाक्पतिरिति च व्यज्यते । उक्तेषूदाहरणेषु वैलक्षण्यं
दर्शयति - -तत्रेत्यादिना ॥ एकैकमेकस्य विशेष्यस्यैकमेव । समनन्तरयोरनन्त-
रोक्तयोः प्रत्येकमेकं विशेष्यं प्रति । तत्रापि तयोर्मध्येऽपि । एकाभिप्रायगर्भाण्ये-
कार्थाभिप्रायपूर्वकाणि ॥ वाक्यार्थेति ॥ न व्यास्थमित्यादिनिषेधवाक्यार्थषक-
ट्कस्योक्तरीत्या हेतुत्वेनान्तिमवाक्यार्थे विशेषणत्वादिति भावः । एतेषु उक्तोदाह-
रणेषु । ध्वनिव्यपदेशो ध्वनिव्यवहारः । तत्र हेतुमाह -- तापहरण इत्यादिना ॥
तापहरणे इत्यादिसप्तम्यन्तचतुष्टयस्य वाच्य इत्यनेन सामानाधिकरण्येनान्वयः ॥

उपस्कारकत्वादिति ॥ तथा चापराङ्गरूपगुणीभूतव्यङ्ग्यभेदत्वान्न ध्वनिव्य-
हार इति भावः । नन्वेवमपि यथाश्रुतलक्षणस्य निःशेषच्युतेत्यादिध्वनावतिव्याप्तिरित्यत आह -
व्याप्तिरित्यत आह
- अतएवेति ॥ वाच्योपस्कारकत्वादेवेत्यर्थः । परिकरत्वा-
दङ्गत्वात् । तथाच परिकरपदमहिम्ना प्रकृतार्थोपपादकत्वस्य व्यङ्ग्य विशेषणस्य
लाभान्नातिव्याप्तिरिति भावः । अपुष्टार्थेति भावप्रधानम् ॥ उक्तत्वादिति ॥
'अर्थोऽपुष्टः कष्टो व्याहतपुनरुक्तदुष्कमग्राम्याः' इत्यादिनालंकारिकैरुक्तवादित्य-
र्थः । कथं तर्हि तैरेवास्यालंकारत्वेन कथनमत आह -- एकनिष्ठेति ॥ तादृ-
g