This page has been fully proofread twice.

परिकरालंकारः २४
 
अलंकारः परिकरः साभि[^१]प्राये विशेषणे ।
सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः ॥ ६२ ॥
 
अत्र सुधांशुकलितोत्तंस इति विशेषणं तापहरणसामर्थ्याभिप्रायगर्भम् ।
 
यथावा --
 
तव प्रसादात्कुसुमायुधोऽपि सहायमेवं मधुमेव लब्ध्वा ।
कुर्यायां हरस्यापि पिनाकपाणेर्धैर्यच्युतिं के मम धन्विनोऽन्ये ॥
 
अत्र पिनाकपाणेरिति हरविशेषणं कुसुमायुध इत्यर्थलभ्याहमर्थविशेषणं च सारासारायुधत्वाभिप्रायगर्भम् । यथावा --
 
सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः ।
शरीरकस्यापि कृते मूढाः पापानि कुर्वते ॥
 
अत्र शरीरविशेषणानि तस्य हेयत्वेनासंरक्षणीयत्वाभिप्रायगर्भाणि ।

व्यास्थं नैकतया स्थितं श्रुतिगणं जन्मी न वल्मीकतो
नाभौ नाभवमच्युतस्य सुमहद्भाव्ष्यं च नाभाषिषम् ।
 
[commentary]
 
गुणीभूतव्यङ्ग्यस्य प्रभेदभूतसमासोक्त्यलंकारप्रसङ्गात्तत्प्रभेदं परिकरालंकारं लक्षयति -- अलंकार इति ॥ अलंकारत्वोत्कीर्तनं च दोषाभावेनैव गतार्थमिति शङ्कानिरासार्थम् । तत्प्रपञ्चनं चाग्रे करिष्यते । साभिप्राये प्रकृतार्थोपपादकार्थविषयकाभिप्रायपूर्वकं तथाभूतार्थव्यञ्जक इति यावत् । इत्थंच प्रकृतार्थोपपादकार्थव्यञ्जकविशेषणत्वं लक्षणं बोध्यम् ।ध्वनावतिव्याप्तिवारणाय प्रकृतार्थोपपादकेति, हेत्वलंकारवारणाय बोधकत्वं विहाय व्यञ्जकत्वनिवेशः । वक्ष्यमाणपरिकराङ्कुरालंकारवारणाय विशेषणेति । तत्र तु विशेष्यं तथेति नातिप्रसङ्गः ॥ सुधांश्विति ॥ सुधांशुना कलितः कृत उत्तंसः शेखरो येन स इति हरविशेषणम् । 'उत्तंसः कर्णपूरे स्याच्छेखरे चावतंसवत्' इति विश्वः । सामर्थ्याभिप्रायं सामर्थ्यव्यञ्जकम् ॥ तवेति ॥ इन्द्रं प्रति कामस्योक्तिः । तव प्रसादात्कुसुमायुधोऽप्यहं मधुं वसन्तमेवैकं मुख्यं सहायं लब्ध्वा पिनाको धनुर्विशेषः पाणौ यस्य तादृशस्यापि हरस्य धैर्यच्युतिं धैर्यस्खलनं कुर्याम् । अन्ये धन्विनो धनुर्धरा मम पुरः के । अगणनीया इत्यर्थः । कुसुमायुध इति विशेषणं चेत्यन्वयः ॥ अर्थलभ्येति ॥ कुर्यामित्युत्तमपुरुषाक्षिप्तेत्यर्थः । अभिप्रायगर्भमभिप्रायपूर्वकम् । अतएवावयवार्थमात्रविश्रान्तत्वाद्धरपदेन न पौनरुक्त्यमपि ॥ सर्वेति ॥ सर्वेषामशुचीनां रक्तपूयरेतोविण्मूत्रादीनां निधानस्य स्थानभूतस्य । कृतघ्नस्य उत्तमान्नपानादिकृतोपकारनाशकस्य शरीरकस्य । शरीरकस्येति निन्दायां कप्रत्ययः । कृते तदर्थम् । तत्संरक्षणार्थमिति यावत् । विशेषणानि पूर्वार्धोक्तानि । तस्य शरीरस्य ॥ व्यास्थमिति ॥ राजानं प्रति कवेरुक्तिः । हे देव
 
[^१] 'प्रायविशेषणे'.