2023-03-30 08:46:14 by Bharadwajraki
This page has been fully proofread once and needs a second look.
परिकरालंकारः २४ ] अलंकारचन्द्रिकासहितः ।
परिकरालंकारः २४
अलंकारः परिकरः साभि[^१]प्राये विशेषणे ।
सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः ॥ ६२ ॥
अत्र सुधांशुकलितोत्तंस इति विशेषणं तापहरणसामर्थ्याभिप्रायगर्भम् ।
यथावा -
-
तव प्रसादात्कुसुमायुधोऽपि सहायमेवं मधुमेव लब्ध्वा ।
कुर्या हरस्यापि पिनाकपाणेधैर्यच्युतिं के मम धन्विनोऽन्ये ॥
अत्र पिनाकपाणेरिति हरविशेषणं कुसुमायुध इत्यर्थलभ्याहमर्थ विशेषणं
च सारासारायुधत्वाभिप्रायगर्भम् । यथावा -
-
सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः ।
शरीरकस्यापि कृते मूढाः पापानि कुर्वते ॥
७१
अत्र शरीरविशेषणानि तस्य हेयत्वेनासंरक्षणीयत्वाभिप्रायगर्भाणि ।
व्यास्थं नैकतया स्थितं श्रुतिगणं जन्मी न वल्मीकतो
नाभौ नाभवमच्युतस्य सुमहद्भाव्यं च नाभाषिषम् ।
[commentary]
गुणीभूतव्यङ्ग्यस्य
-
प्रभेदभूतसमासोक्त्यलंकारप्रसङ्गात्तत्प्रभेदं परिकरालंकारं
लक्षयति –-- अलंकार इति ॥ अलंकारत्वोत्कीर्तनं च दोषाभावेनैव गतार्थ-
मिति शङ्कानिरासार्थम् । तत्प्रपञ्चनं चाग्रे करिष्यते । साभिप्राये प्रकृतार्थोपपाद-
कार्थविषयकाभिप्रायपूर्वकं तथाभूतार्थव्यञ्जक इति यावत् । इत्थंच प्रकृतार्थो
पपादकार्थव्यञ्जक विशेषणत्वं लक्षणं बोध्यम् । ध्वनावतिव्याप्तिवारणाय प्रकृता-
र्थोपपादकेति, हेत्वलंकारवारणाय बोधकत्वं विहाय व्यञ्जकत्वनिवेशः । वक्ष्य-
माणपरिकराङ्कुरालंकारवारणाय विशेषणेति । तत्र तु विशेष्यं तथेति नातिप्रस-
ङ्गः ॥ सुधांश्विति ॥ सुधांशुना कलितः कृत उत्तंसः शेखरो येन स इति हर-
विशेषणम् । 'उत्तंसः कर्णपूरे स्याच्छेखरे चावतंसवत्' इति विश्वः । सामर्थ्या-
भिप्रायं सामर्थ्यव्यञ्जकम् ॥ तवेति ॥ इन्द्रं प्रति कामस्योक्तिः । तव प्रसादा-
त्कुसुमायुधोऽप्यहं मधुं वसन्तमेवैकं मुख्यं सहायं लब्ध्वा पिनाको धनुर्विशेषः
पाणौ यस्य तादृशस्यापि हरस्य धैर्यच्युतिं धैर्यस्खलनं कुर्याम् । अन्ये धन्विनो
धनुर्धरा मम पुरः के । अगणनीया इत्यर्थः । कुसुमायुध इति विशेषणं चेय-
न्वयः ॥ अर्थलभ्येति ॥ कुर्यामित्युत्तमपुरुषाक्षिप्तेत्यर्थः । अभिप्रायगर्भमभि-
प्रायपूर्वकम् । अतएवावयवार्थमात्र विश्रान्तत्वाद्धरपदेन न पौनरुक्त्यमपि ॥
सर्वेति ॥ सर्वेषामशुचीनां रक्तपूय रेतोविण्मूत्रादीनां निधानस्य स्थानभूतस्य ।
कृतघ्नस्य उत्तमान्नपानादिकृतोपकारनाशकस्य शरीरकस्य । शरीरकस्येति निन्दा -
यां कप्रत्ययः । कृते तदर्थम् । तत्संरक्षणार्थमिति यावत् । विशेषणानि पूर्वार्धो-
तानि । तस्य शरीरस्य ॥ व्यास्थमिति ॥ राजानं प्रति कवेरुक्तिः । हे देव
[^१ ]'प्रायविशेषणे'.
-
परिकरालंकारः २४
अलंकारः परिकरः साभि[^१]प्राये विशेषणे ।
सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः ॥ ६२ ॥
अत्र सुधांशुकलितोत्तंस इति विशेषणं तापहरणसामर्थ्याभिप्रायगर्भम् ।
यथावा -
तव प्रसादात्कुसुमायुधोऽपि सहायमेवं मधुमेव लब्ध्वा ।
कुर्या हरस्यापि पिनाकपाणेधैर्यच्युतिं के मम धन्विनोऽन्ये ॥
अत्र पिनाकपाणेरिति हरविशेषणं कुसुमायुध इत्यर्थलभ्याहमर्थ
सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः ।
शरीरकस्यापि कृते मूढाः पापानि कुर्वते ॥
७१
अत्र शरीरविशेषणानि तस्य हेयत्वेनासंरक्षणीयत्वाभिप्रायगर्भाणि ।
व्यास्थं नैकतया स्थितं श्रुतिगणं जन्मी न वल्मीकतो
नाभौ नाभवमच्युतस्य सुमहद्भाव्यं च नाभाषिषम् ।
[commentary]
गुणीभूतव्यङ्ग्यस्य
-
[^१
-