This page has not been fully proofread.

कुवलयानन्दः । [ समासोत्त्यलंकारः २३
 
हेतुः । किंत्वप्रस्तुतकामुकादिसंबन्धित्वेनावगम्यमानस्य तस्यारोपः । तथा.
भूतस्यैव रसानुगुणत्वात् । नच तावदवगमने विशेषणपदानां सामर्थ्यमस्ति ।
अतः श्लेषादिमहिम्ना विशेषणपदैः स्वरूपतः समर्पितेन वदनचुम्बनादिन।
तत्संबन्धिनि कामुकादावभिव्यक्ते पुनस्तदीयत्वानुसंधानं तत्र भवति । यथा
स्वरूपतो दृष्टेन राजाश्वादिना तत्संबन्धिनि राजादौ स्मारिते पुनरश्वादौ
तदीयत्वानुसंधानमिति विशेषणसाम्येन वाच्योपस्कारकस्याप्रस्तुतव्यञ्जनस्या.
स्त्यपेक्षा । अतएव लिष्टविशेषणायामिव साधारणविशेषणायामप्य
प्रस्तुतव्य.
वहारसमारोप इत्येव प्राचीनानां प्रवादः । कन्दुके व्यावलगत्कुचभारत्वादि
विशिष्ट वनिता से व्यत्वस्य कामुकसंबन्धित्वेनैव समारोपणीयत्वात् । स्वरूपतः
कन्दुकेऽपि तस्य सत्त्वेनासमारोपणीयत्वात् । किंच सारूण्यनिबन्धनत्वेनो-
दाहृतायां समासोक्तावप्रस्तुतवृत्तान्तस्याशब्दार्थस्याप्रस्तुतवृत्तान्तरूपेणैव ग
म्यतया तेन रूपेण तत्र समारोप सिद्धेरन्यत्रापि तथैव युक्तमिति युक्तमेव
प्राचीनानां लक्षणमिति विभावनीयम् ॥ ६१ ॥
 
७०
 
सामर्थ्याल्लक्षणासंगतितादवस्थ्यमित्याशङ्कय साक्षादसामर्थ्येऽपि वृत्तान्ताभिव्य
क्तिद्वारा तत्संभवान्न दोष इत्याह –नचेत्यादि ॥ तदीयत्वानुसंधानं कामुक संब
न्धित्वानुसंधानम् । तत्र मुखचुम्बनादौ । अनुसंधानं तद्वदिति पाठः । अनुसंधा
नवदिति पाठे यथेत्यस्यासंगतेः । अतएवाप्रस्तुतव्यञ्जनस्यापेक्षणादेव । नन्वप्रस्तुत
धर्मिव्यञ्जनानपेक्षणे ईदृशः प्रवादः कुतो न युक्तस्तत्राह – कन्दुक इति ॥ वि
शिष्टेत्यस्य सेव्यत्वेनान्वयः । संबन्धित्वेनैवेत्येवकारोक्त मेवार्थं सोपपत्तिकमाह-
स्वरूपत इति ॥ अप्रस्तुतकामुक संबन्धित्वानालिङ्गितरूपेणेत्यर्थः । तथा चारो
पासंभवात्तादृशप्रवादानुपपत्तिरिति भावः । लिष्ट विशेषणायामय मैन्द्रीत्यादौ मु.
खचुम्बनादेः स्वरूपतोऽप्यारोपस्यैव सत्त्वात्साधारण विशेषणायामुपष्टम्भकत्वेन
प्रवादोपन्यासः । ननु तत्रापि तादृशवनितासेव्यत्वस्य तादृशवनिताकृतविपरीत
रतपात्रत्वरूपस्याप्रस्तुतवृत्तान्तरूपस्य स्वरूपतोऽप्यारोपस्यैव संभवान्न तादृशप्र.
वादानुपपत्तिरत आह–किंचेति ॥ युक्तमिति ॥ तत्सामान्यादितरेषु तथा
त्वमिति न्यायादिति भावः ॥ लक्षणमिति ॥ जातावेकवचनम् । तदेवमुक्त
रीत्या 'अयमैन्द्रीमुखं पश्य रक्तश्रुम्वति चन्द्रमाः' इत्यत्र शक्तिव्यञ्जनाभ्यां प्रा.
चीप्रारम्भसंबन्धाश्रयश्चन्द्रो जारसंबन्धिसानुरागपरनायिकामुखचुम्बनाश्रय इति
वोधः । अप्रस्तुतवृत्तान्ताभिन्नत्वेनाध्यवसितस्य प्रस्तुतवृत्तान्तस्य तादात्म्येना
प्रस्तुतारोपविषये प्रस्तुतधर्मिण्यन्वय इति मते तु सानुरागपरनायिकामुखचुम्ब
नाभिन्न प्राचीप्रारम्भसंयोगाश्रयो जाराभिन्नश्चन्द्र इति बोधः । एवमुदाहरणा
न्तरेऽप्यनेनैव प्रकारेण बोधप्रकारा ऊहनीयाः ॥ ६१ ॥ इति समासोक्ति
प्रकरणम् ॥ २३ ॥
 
---
 
.