2023-04-24 07:21:50 by Bharadwajraki
This page has been fully proofread twice.
हेतुः । किंत्वप्रस्तुतकामुकादिसम्बन्धित्वेनावगम्यमानस्य तस्यारोपः । तथाभूतस्यैव रसानुगुणत्वात् । नच तावदवगमने विशेषणपदानां सामर्थ्यमस्ति । अतः श्लेषादिमहिम्ना विशेषणपदैः स्वरूपतः समर्पितेन वदनचुम्बनादिना। तत्सम्बन्धिनि कामुकादावभिव्यक्ते पुनस्तदीयत्वानुसन्धानं तत्र भवति । यथथा स्वरूपतो दृष्टेन राजाश्वादिना तत्सम्बन्धिनि राजादौ स्मारिते पुनरश्वादौ तदीयत्वानुसन्धानमिति विशेषणसाम्येन वाच्योपस्कारकस्याप्रस्तुतव्यञ्जनस्यास्त्यपेक्षा । अतएव श्लिष्टविशेषणायामिव साधारणविशेषणायामप्यप्रस्तुतव्यवहारसमारोप इत्येव प्राचीनानां प्रवादः । कन्दुके व्यावलल्गत्कुचभारत्वादिविशिष्टवनितासेव्यत्वस्य कामुकसम्बन्धित्वेनैव समारोपणीयत्वात् । स्वरूपतः कन्दुकेऽपि तस्य सत्त्वेनासमारोपणीयत्वात् । किंच सारूण्यनिबन्धनत्वेनोदाहृतायां समासोक्तावप्रस्तुतवृत्तान्तस्याशब्दार्थस्याप्रस्तुतवृत्तान्तरूपेणैव गम्यतया तेन रूपेण तत्र समारोपसिद्धेरन्यत्रापि तथैव युक्तमिति युक्तमेव प्राचीनानां लक्षणमिति विभावनीयम् ॥ ६१ ॥
[commentary]
सामर्थ्याल्लक्षणासंगतितादवस्थ्यमित्याशङ्कक्य साक्षादसामर्थ्येऽपि वृत्तान्ताभिव्यक्तिद्वारा तत्सम्भवान्न दोष इत्याह -- नचेत्यादि ॥ तदीयत्वानुसन्धानं कामुकसम्बन्धित्वानुसन्धानम् । तत्र मुखचुम्बनादौ । अनुसन्धानं तद्वदिति पाठः । अनुसन्धानवदिति पाठे यथेत्यस्यासंगतेः । अतएवाप्रस्तुतव्यञ्जनस्यापेक्षणादेव । नन्वप्रस्तुतधर्मिव्यञ्जनानपेक्षणे ईदृशः प्रवादः कुतो न युक्तस्तत्राह -- कन्दुक इति ॥ विशिष्टेत्यस्य सेव्यत्वेनान्वयः । सम्बन्धित्वेनैवेत्येवकारोक्त- मेवार्थं सोपपत्तिकमाह -- स्वरूपत इति ॥ अप्रस्तुतकामुकसम्बन्धित्वानालिङ्गितरूपेणेत्यर्थः । तथा चारोपासम्भवात्तादृशप्रवादानुपपत्तिरिति भावः । श्लिष्टविशेषणायामयमैन्द्रीत्यादौ मु-
खचुम्बनादेः स्वरूपतोऽप्यारोपस्यैव सत्त्वात्साधारणविशेषणायामुपष्टम्भकत्वेन प्रवादोपन्यासः । ननु तत्रापि तादृशवनितासेव्यत्वस्य तादृशवनिताकृतविपरीतरतपात्रत्वरूपस्याप्रस्तुतवृत्तान्तरूपस्य स्वरूपतोऽप्यारोपस्यैव सम्भवान्न तादृशप्रवादानुपपत्तिरत आह -- किंचेति ॥ युक्तमिति ॥ तत्सामान्यादितरेषु तथा
त्वमिति न्यायादिति भावः ॥ लक्षणमिति ॥ जातावेकवचनम् । तदेवमुक्तरीत्या 'अयमैन्द्रीमुखं पश्य रक्तश्रुम्वचुम्बति चन्द्रमाः' इत्यत्र शक्तिव्यञ्जनाभ्यां प्राचीप्रारम्भसम्बन्धाश्रयश्चन्द्रो जारसम्बन्धिसानुरागपरनायिकामुखचुम्बनाश्रय इत बोधः । अप्रस्तुतवृत्तान्ताभिन्नत्वेनाध्यवसितस्य प्रस्तुतवृत्तान्तस्य तादात्म्येना प्रस्तुतारोपविषये प्रस्तुतधर्मिण्यन्वय इति मते तु सानुरागपरनायिकामुखचुम्बनाभिन्न प्राचीप्रारम्भसंयोगाश्रयो जाराभिन्नश्चन्द्र इति बोधः । एवमुदाहरणान्तरेऽप्यनेनैव प्रकारेण बोधप्रकारा ऊहनीयाः ॥ ६१ ॥ इति समासोक्तिप्रकरणम् ॥ २३ ॥
[commentary]
सामर्थ्याल्लक्षणासंगतितादवस्थ्यमित्याशङ्
त्वमिति न्यायादिति भावः ॥ लक्षणमिति ॥ जातावेकवचनम् । तदेवमुक्तरीत्या 'अयमैन्द्रीमुखं पश्य रक्तश्