2023-02-17 12:58:51 by ambuda-bot
This page has not been fully proofread.
समासोत्तयलंकारः २३ ] अलंकारचन्द्रिकासहितः ।
६९
गच्छेम । तस्माद्विशेषण समर्पिता प्रस्तुत
व्यवहारसमारोपमात्रमिह चारुता-
हेतुः । यद्यपि प्रस्तुता प्रस्तुतवृत्तान्तयोरिह श्लिष्टसाधारणविशेषणसमर्पितयो-
भिन्नपदोपात्तविशेषणयोरिव विशेष्येणैव साक्षादन्वयादस्ति समप्राधान्यम्,
तथाप्य प्रस्तुतवृत्तान्तान्वयानुरोधान्न प्रस्तुतेऽप्रस्तुतरूपसमारोपोऽङ्गीकार्यः ।
तथाहि यथा प्रस्तुतविशेष्येऽप्रस्तुतवृत्तान्तस्यान्वयायोग्यता
Sप्रस्तुतेऽपि जारादौ नास्ति प्रस्तुतवृत्तान्तस्यान्वययोग्यता । एवंच समप्र-
धानयोः प्रस्तुताप्रस्तुतवृत्तान्तयोरन्यतरस्यावश्यमारोपेऽभ्युपगन्तव्ये श्रुत ए-
व प्रस्तुतेऽप्रस्तुतस्यारोपश्चारुता हेतुरिति युक्तम् । नन्वेवं सति विशेषणसाम्या-
दप्रस्तुतस्य गम्यत्वं समासोक्तिः ।
तथैव
'विशेषणानां साम्येन यत्र प्रस्तुतवर्तिनाम् ।
अप्रस्तुतस्य गम्यत्वं सा समासोक्तिरिष्यते ॥'
इत्यादीनि प्राचीनानां समासोक्तिलक्षणानि न संगच्छेरन् । प्रस्तुते श्लिष्ट-
साधारणादिविशेषणसमर्पितानुरागपूर्वकवदनचुम्बनाद्य
प्रस्तुतवृत्तान्तसमारो-
पमात्रस्य चारुताहेतुत्वाभ्युपगमेन विशेषणसाम्यकृतकामुकाद्यप्रस्तुतधर्मिव्य-
अनानपेक्षणादिति चेदुच्यते । स्वरूपतोऽप्रस्तुतवृत्तान्तस्यारोपो न चारुता-
-
कथंचिदर्थतोऽनुवादत्वेन व्याख्येयः । उपसंहरति – तस्मादिति ॥ मात्रपदे-
-
नाप्रस्तुतारोपव्यवच्छेदः । विद्युन्नयनवत्समासकृतश्रौतप्राधान्याभावेऽपि विशे-
पणसामर्थ्यावगतस्याप्रस्तुतवृत्तान्तस्यार्थतः प्राधान्य मस्तीति शङ्कते- यद्यपीति ॥
नन्वप्रस्तुतवृत्तान्ताभिन्नत्वेनावगतस्य प्रस्तुतवृत्तान्तस्य प्रस्तुत विशेष्येणान्वया-
त्कथमप्रस्तुतवृत्तान्तस्य प्राधान्य मिति शङ्कानिरासायाह
– विशेष्येणैवेति ॥
नतु तद्विशेषणीभूतप्रस्तुतवृत्तान्तेनेत्येवकारार्थः । समाधत्ते- तथापीति ॥ अय-
माशयः-नात्र श्लिष्टादिविशेषणैः समर्पितः परनायिकामुखचुम्बनादिरूपोऽप्रस्तुत -
वृत्तान्तः प्रागेव कयापि व्युत्पत्त्याप्रस्तुतगतत्वेन भासते, यद्वलादप्रस्तुतजाराद्या-
रोपावगतिः स्यात् । अपितु ताटस्थ्येनावगते तस्मिन्प्रस्तुतासंबद्धस्य कविसंरम्भ-
गोचरत्वायोगात्प्रस्तुतसमारोपितत्वेन पर्यवसानमिति । नन्वेवं तर्हि प्रस्तुतवृत्तान्त
स्याप्यप्रस्तुतवृत्तान्ताश्रये धर्मिण्यन्वयोऽस्तु असंबद्धाभिधानप्रसङ्ग परिहारस्य
तुल्यत्वादित्याशङ्कयाह – तथाहीत्यादि ॥ एवंच योग्यतारूप विनिगमकविरहे
च मास्तु तर्हि कस्याप्यन्वयस्तत्राह – अवश्य मिति ॥ अन्यथासंबद्धाभिधानप्र-
सङ्गापत्तेरिति भावः । किं तर्हि विनिगमकं तत्राह – श्रुत एवेति ॥ तथाच श्रुत-
प्रस्तुतार्थोपस्कारकतया चमत्कार हेतुत्वमेव विनिगमकमिति भावः । अप्रस्तुतस्या-
प्रस्तुतवृत्तान्तस्य ॥ नन्वेवमिति ॥ एवम प्रस्तुतसमारोपानङ्गीकारे ॥ विशेषणा-
नामित्यादि विद्यानाथोक्तं लक्षणम् । प्रस्तुतवर्तिनां विशेषणानां साम्येनेत्यन्वयः।
प्रस्तुते समारोपार्थम् । अप्रस्तुतधर्मिव्यञ्जनानपेक्षायामपि समारोप्यमाणवृत्तान्त-
विशेषणत्वार्थे तदपेक्षणान्न लक्षणासंगतिरित्याह – स्वरूपत इति ॥ स्वरूपतो-
ऽप्रस्तुत संबन्धित्वेनाज्ञायमानस्य । नन्वपेक्षासत्त्वेऽपि विशेषणसाम्यस्य तव्यञ्जना-
कुव० ८