This page has been fully proofread twice.

गच्छेम । तस्माद्विशेषणसमर्पिताप्रस्तुतव्यवहारसमारोपमात्रमिह चारुताहेतुः । यद्यपि प्रस्तुता- प्रस्तुतवृत्तान्तयोरिह श्लिष्टसाधारणविशेषणसमर्पितयोर्भिन्नपदोपात्तविशेषणयोरिव विशेष्येणैव साक्षादन्वयादस्ति समप्राधान्यम्, तथाप्य प्रस्तुतवृत्तान्तान्वयानुरोधान्न प्रस्तुतेऽप्रस्तुतरूपसमारोपोऽङ्गीकार्यः । तथाहि यथा प्रस्तुतविशेष्येऽप्रस्तुतवृत्तान्तस्यान्वयायोग्यता तथैव वाSप्रस्तुतेऽपि जारादौ नास्ति प्रस्तुतवृत्तान्तस्यान्वययोग्यता । एवंच समप्रधानयोः प्रस्तुताप्रस्तुतवृत्तान्तयोरन्यतरस्यावश्यमारोपेऽभ्युपगन्तव्ये श्रुत एव प्रस्तुतेऽप्रस्तुतस्यारोपश्चारुता हेतुरिति युक्तम् । नन्वेवं सति विशेषणसाम्यादप्रस्तुतस्य गम्यत्वं समासोक्तिः ।
 
'विशेषणानां साम्येन यत्र प्रस्तुतवर्तिनाम् ।
अप्रस्तुतस्य गम्यत्वं सा समासोक्तिरिष्यते ॥'
 
इत्यादीनि प्राचीनानां समासोक्तिलक्षणानि न संगच्छेरन् । प्रस्तुते श्लिष्ट-साधारणादिविशेषणसमर्पितानुरागपूर्वकवदनचुम्बनाद्यप्रस्तुतवृत्तान्तसमारोपमात्रस्य चारुताहेतुत्वाभ्युपगमेन विशेषणसाम्यकृतकामुकाद्यप्रस्तुतधर्मिव्यञ्जनानपेक्षणादिति चेदुच्यते । स्वरूपतोऽप्रस्तुतवृत्तान्तस्यारोपो न चारुता-
 
[commentary]
 
कथंचिदर्थतोऽनुवादत्वेन व्याख्येयः । उपसंहरति -- तस्मादिति ॥ मात्रपदे-नाप्रस्तुतारोपव्यवच्छेदः । विद्युन्नयनवत्समासकृतश्रौतप्राधान्याभावेऽपि विशे-
णसामर्थ्यावगतस्याप्रस्तुतवृत्तान्तस्यार्थतः प्राधान्यमस्तीति शङ्कते -- यद्यपीति ॥
नन्वप्रस्तुतवृत्तान्ताभिन्नत्वेनावगतस्य प्रस्तुतवृत्तान्तस्य प्रस्तुतविशेष्येणान्वया-
त्कथमप्रस्तुतवृत्तान्तस्य प्राधान्यमिति शङ्कानिरासायाह -- विशेष्येणैवेति ॥ नतु तद्विशेषणीभूतप्रस्तुतवृत्तान्तेनेत्येवकारार्थः । समाधत्ते -- तथापीति ॥ अयमाशयः -- नात्र श्लिष्टादिविशेषणैः समर्पितः परनायिकामुखचुम्बनादिरूपोऽप्रस्तुतवृत्तान्तः प्रागेव कयापि व्युत्पत्त्याप्रस्तुतगतत्वेन भासते, यद्लादप्रस्तुतजाराद्यारोपावगतिः स्यात् । अपितु ताटस्थ्येनावगते तस्मिन्प्रस्तुतासम्बद्धस्य कविसंरम्भगोचरत्वायोगात्प्रस्तुतसमारोपितत्वेन पर्यवसानमिति । नन्वेवं तर्हि प्रस्तुतवृत्तान्तस्याप्यप्रस्तुतवृत्तान्ताश्रये धर्मिण्यन्वयोऽस्तु असम्बद्धाभिधानप्रसङ्गपरिहारस्य तुल्यत्वादित्याशङ्क्याह -- तथाहीत्यादि ॥ एवंच योग्यतारूप -विनिगमकविरहे च मास्तु तर्हि कस्याप्यन्वयस्तत्राह -- अवश्यमिति ॥अन्यथासंबद्धाभिधानप्रसङ्गापत्तेरिति भावः । किं तर्हि विनिगमकं तत्राह -- श्रुत एवेति ॥ तथाच श्रुतप्रस्तुतार्थोपस्कारकतया चमत्कारहेतुत्वमेव विनिगमकमिति भावः । अप्रस्तुतस्या-
प्रस्तुतवृत्तान्तस्य ॥ नन्वेवमिति ॥ एवमप्रस्तुतसमारोपानङ्गीकारे ॥ विशेषणानामित्यादि विद्यानाथोक्तं लक्षणम् । प्रस्तुतवर्तिनां विशेषणानां साम्येनेत्यन्वयः।
प्रस्तुते समारोपार्थम् । अप्रस्तुतधर्मिव्यञ्जनानपेक्षायामपि समारोप्यमाणवृत्तान्तविशेषणत्वार्थे तदपेक्षणान्न लक्षणासंगतिरित्याह -- स्वरूपत इति ॥ स्वरूपतोऽप्रस्तुतसम्बन्धित्वेनाज्ञायमानस्य । नन्वपेक्षासत्त्वेऽपि विशेषणसाम्यस्य तद्व्यञ्जना-
 
कुव० ८