2023-04-24 07:05:05 by Bharadwajraki
This page has been fully proofread twice.
इत्यत्र मुखे चन्द्रत्वारोपहेतुचन्द्रपदसमभिव्याहारवद्रक्तश्रुचुम्बति चन्द्रमा
इत्यादिसमासोक्त्युदाहरणे चन्द्रादौ जारत्वाद्यारोपहेतोस्तद्वाचकपदसमभिव्याहारस्याभावात् ।
'निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः ।
धारानिपातैः सह किं नु वान्तश्चन्द्रोऽयमित्यार्ततरं ररासे ॥'
इत्येकदेशविवर्तिरूपकोदाहरण इव प्रस्तुतेऽप्रस्तुतरूपसमारोपगमकस्याव्प्यभावात् । तत्रहि विद्युन्नयनैरित्यत्र निरीक्षणानुगुण्यादुत्तरपदार्थप्रधानरूप- मयूरव्यंसकादिसमासव्यवस्थितादुत्तरपदार्थभूतनयनान्व-यानुरोधात् पयोदेऽनुक्तमपि द्रष्टृपुरुषत्वरूपणं गम्यमुपगम्यते । नचेह तथानिरीक्षणवत् त्वय्यागते किमिति वेपत एष सिन्धुरिति श्लोके सेतुकृत्त्वादिवच्चाप्रस्तुतासाधारणवृत्तान्त उपात्तोऽस्ति । नापि श्लिष्टसाधारणादिविशेषणसमर्पितयोः प्रस्तुताप्रस्तुतवृत्तान्तयोरप्रस्तुतवृत्तान्तस्य विद्युन्नयनवत्प्राधान्यमस्ति । येन तदनुरोधात्त्वं सेतुमन्थकृदित्यत्रेव प्रस्तुतेऽनुक्तमध्प्यप्रस्तुतरूपसमारोपमभ्युप-
[commentary]
स्वरूपेत्यर्थः। कुतस्तत्राह–-- मुखमित्यादि ॥ तादात्म्येन चन्द्रारोपे तादात्म्यस्यापि संसर्गविधया आरोपविषयत्वात्तस्य च चन्द्रत्वानतिरेकाञ्च्चन्द्रत्वारोपेत्युक्तिः । नतु प्रकारतया चन्द्रत्वारोप उक्त इति भ्रमितव्यम् । चन्द्र इति शब्देन चन्द्रविशेषणत्वेनोपस्थितस्य चन्द्रत्वस्य मुखे विशेषणतयारोपासम्भवात् । एवं जारत्वेत्यत्रापि बोध्यम् ॥ तद्वाचकेति ॥ जारवाचकेत्यर्थः । ननु जारादिपदसमभिव्याहाराभावाच्छ्रौतारोपासम्भवेऽप्यार्थीथो जाराद्यारोपोऽस्तु । नहि तत्रापि
तादृशसमभिव्याहारो हेतुः । रूपकध्वनेरुच्छेदापत्तेरित्याशङ्ख्क्याह -- निरीक्षेति ॥ पयोदो मेघो विद्युत्स्वरूपैर्नयनैर्निशायामभिसारिकाया मुखं वीक्ष्य धारानिपातैः : सह वान्तः किं त्वयं चन्द्र इति मत्वा आर्ततरं यथा स्यात्तथा ररासे आक्रन्दनं कृतवानित्यर्थः । उदाहरण इवेति व्यतिरेकदृष्टान्तः । अत्र यथा गमकमस्ति तादृशस्य समासोत्क्त्युदाहरणे अभावादित्यर्थः । तथा चार्थारोपोऽप्यनाशङ्क्य इति भावः । ननु विद्युन्नयनैरित्यत्र किमप्रस्तुतारोपगमकं यदभावात्समासोक्तौ तदभाव इत्यतो गमकं दर्शयितुमाह -- तत्रेति ॥ आनुगुण्यादानुकूल्यात् । उपमितसमासस्य पूर्वपदार्थप्रधानतया नयनसदृशविद्युत्करणकत्वस्य निरीक्षणे सम्भवात्प्रतिकूलत्वमिति भावः । अनुक्तमप्यश्रौतमपि रूपणमारोपः ॥ नचेहेति ॥ इह समासोत्क्त्युदाहरणे । तथानिरीक्षणवन्नयनकरणकनिरीक्षणवत् सेतुकृत्त्वादीत्यादिना मन्थनकारित्वपरिग्रहः । नन्विहापि परनायिकामुखचुम्बनवरूपस्याप्रस्तुतवृत्तान्तस्याप्रस्तुता- साधारणधर्मत्वादप्रस्तुतारोपगमकत्वं स्यादित्याशङ्कक्य परिहरति -- नापीति ।साधारणादीत्यादिना सादृश्यगर्भविशेषणसंग्रहः । वृत्तान्तयोरिति निर्धारणे षष्टी । वृत्तान्तयोर्मध्य इत्यर्थः ॥ विद्युन्नयनवदिति ॥ प्रस्तुताप्रस्तुतयोर्विद्युन्नयनयोर्मध्ये यथा नयनस्योत्तरपदार्थप्रधानसमासात्प्राधान्यं तथा नास्तीत्यर्थः । सेतुमन्थकृदिति पाठः । सेतुबन्धकृदिति त्वपपाठः ।
इत्यादिसमासोक्त्युदाहरणे चन्द्रादौ जारत्वाद्यारोपहेतोस्तद्वाचकपदसमभिव्याहारस्याभावात् ।
'निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः ।
धारानिपातैः सह किं नु वान्तश्चन्द्रोऽयमित्यार्ततरं ररासे ॥'
इत्येकदेशविवर्तिरूपकोदाहरण इव प्रस्तुतेऽप्रस्तुतरूपसमारोपगमकस्या
[commentary]
स्वरूपेत्यर्थः। कुतस्तत्राह
तादृशसमभिव्याहारो हेतुः । रूपकध्वनेरुच्छेदापत्तेरित्याशङ्