This page has been fully proofread once and needs a second look.

६८
 
कुवलयानन्दः । [ समासोक्त्यलंकारः २३
 
इत्यत्र मुखे चन्द्रत्वारोपहेतुचन्द्रपदसमभिव्याहारवद्रक्तश्रुम्बति चन्द्रमा
-
त्यादिसमासोक्त्युदाहरणे चन्द्रादौ जारत्वाद्यारोपहेतोस्तद्वाचकपदसमभिव्या-
हारस्याभावात् ।
 

 
' निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः ।

धारानिपातैः सह किं नु वान्तश्चन्द्रोऽयमित्यार्ततरं ररासे ॥ '

 
इत्येक देशविवर्तिरूप कोदाहरण इव प्रस्तुतेऽप्रस्तुतरूपसमारोपगमकस्या-
व्यभावात् । तत्रहि विद्युन्नयनै रित्यत्र निरीक्षणानुगुण्यादुत्तरपदार्थप्रधानरूप-
मयूरव्यंसकादिसमासव्यवस्थितादुत्तरपदार्थभूतनयनान्वयानुरोधात् पयो-
देऽनुक्तमपि द्रष्टृपुरुषत्वरूपणं गम्यमुपगम्यते । नचेह तथानिरीक्षणवत्
त्वय्यागते किमिति वेपत एष सिन्धुरिति श्लोके सेतुकृत्त्वादिवच्चाप्रस्तुतासा-
धारणवृत्तान्त उपात्तोऽस्ति । नापि श्लिष्टसाधारणादि विशेषणसमर्पितयोः
प्रस्तुताप्रस्तुतवृत्तान्तयोरप्रस्तुतवृत्तान्तस्य विद्युन्नयनवत्प्राधान्यमस्ति । येन
तदनुरोधात्त्वं सेतुमन्थकृदित्यत्रेव प्रस्तुतेऽनुक्तमध्यप्रस्तुतरूपसमारोपमभ्युप-

 
[commentary]
 
स्वरूपेत्यर्थः। कुतस्तत्राह – मुखमित्यादि ॥ तादात्म्येन चन्द्रारोपे तादात्म्य
स्यापि संसर्गविधया आरोपविषयत्वात्तस्य च चन्द्रत्वानतिरेकाञ्चन्द्रत्वारोपेत्यु-
क्तिः । नतु प्रकारतया चन्द्रवारोप उक्त इति भ्रमितव्यम् । चन्द्र इति शब्देन
चन्द्रविशेषणत्वेनोपस्थितस्य चन्द्रत्वस्य मुखे विशेषणतयारोपासंसम्भवात् । एवं
जारत्वेत्यत्रापि बोध्यम् ॥ तद्वाचकेति ॥ जारवाचकेत्यर्थः । ननु जारादिपद-
समभिव्याहाराभावाच्छ्रौतारोपासंसम्भवेऽप्यार्थी जाराद्यारोपोऽस्तु । नहि तत्रापि

तादृशसमभिव्याहारो हेतुः । रूपकध्वनेरुच्छेदापत्ते रित्याशङ्ख्याह -- निरीक्षे-
ति ॥ पयोदो मेघो विद्युत्स्वरूपैर्नयनैर्निशायामभिसारिकाया मुखं वीक्ष्य धारा-
निपातैः : सह वान्तः किं त्वयं चन्द्र इति मत्वा आर्ततरं यथा स्यात्तथा ररासे
आक्रन्दनं कृतवानित्यर्थः । उदाहरण इवेति व्यतिरेकदृष्टान्तः । अत्र यथा
गमकमस्ति तादृशस्य समासोत्त्युदाहरणे अभावादित्यर्थः । तथा चार्थारोपोऽप्य-
नाशङ्क्य इति भावः । ननु विद्युन्नयनै रित्यत्र किमप्रस्तुतारोपगमकं यदभावात्स-
मासोक्तौ तदभाव इत्यतो गमकं दर्शयितुमाह -- तत्रेति ॥ आनुगुण्यादानुकू-
ल्यात् । उपमितसमासस्य पूर्वपदार्थप्रधानतया नयनसदृश विद्युत्करणकत्वस्य
निरीक्षणे संसम्भवात्प्रतिकूलत्वमिति भावः । अनुक्तमप्य श्रौतमपि रूपणमारोपः ॥
नचेहेति ॥ इह समासोत्त्युदाहरणे । तथानिरीक्षणवन्नयनकरणकनिरीक्षणवत्
सेतुकृत्त्वादीत्यादिना मन्थनकारित्वपरिग्रहः । नन्विहापि परनायिकामुखचुम्बनवरूपस्याप्रस्तुतवृत्तान्तस्याप्रस्तुता-
रूपस्याप्रस्तुतवृत्तान्तस्याप्रस्तुता
साधारणव मैधर्मत्वादप्रस्तुतारोपगमकत्वं स्यादित्या-
शङ्कय परिहरति -- नापीति । साधारणादीत्यादिना सादृश्यगर्भविशेषणसंग्रहः
वृत्तान्तयोरिति निर्धारणे षष्टी । वृत्तान्तयोर्मध्य इत्यर्थः ॥ विद्युन्नयनवदिति ॥
प्रस्तुताप्रस्तुतयोर्विद्युन्नयनयोर्मध्ये यथा नयनस्योत्तरपदार्थप्रधानसमासात्प्राधा-
न्यं तथा नास्तीत्यर्थः । सेतुमन्थकृदिति पाठः । सेतुबन्धकृदिति त्वपपाठः ।
 
-