2023-02-17 12:58:50 by ambuda-bot
This page has not been fully proofread.
समासोक्त्यलंकारः २३ ] अलंकारचन्द्रिकासहितः ।
पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां
विपर्यासं यातो घनविरलभावः क्षितिरुहाम् ।
बहोर्दृष्टं कालादपरमिव मन्ये वनमिदं
निवेश: शैलानां तदिदमिति बुद्धिं दृढयति ॥
अत्र वनवर्णने प्रस्तुते तत्सारूप्यात्कुटुम्बिषु धनसंतानादिसमृद्ध्यसमृद्धि -
विपर्यासं प्राप्तस्य तत्समाश्रयस्य ग्रामनगरादेर्वृत्तान्तः प्रतीयते ।
६७
अत्र च प्रस्तुताप्रस्तुतसाधारण विशेषणबलात्सारूप्यबलाद्वाऽप्रस्तुतवृत्ता-
न्तस्य प्रत्यायनं तत्प्रस्तुते विशेष्ये तत्समारोपार्थं सर्वथैव प्रस्तुतानन्वयिनः
कविसंरम्भागोचरत्वायोगात् । ततश्च समासोक्ताव
प्रस्तुतव्यवहारसमारोपश्चा-
रुताहेतुः । नतु रूपक इव प्रस्तुतेऽप्रस्तुतरूपसमारोपोऽस्ति । मुखं चन्द्र
ति भावः । सारूप्यात्सादृश्यात् ॥ पुरेति ॥ उत्तररामचरिते सीतात्यागानन्तरं
कदाचिद्वनं प्रति गतस्य भगवतो रामचन्द्रस्येयमुक्तिः । पुरा वनवासकाले सरि-
तां नदीनां स्रोतः प्रवाहो यत्र प्रदेशे आसीत्तत्राधुना पुलिनमस्तीति शेषः ।
तथा क्षितिरुहां तरूणां घनविरलभावो विपर्यास वैपरीत्यं यातः प्राप्तः । सा-
न्द्राणां विरलता विरलानां शाखापल्लवादिवृद्ध्या सान्द्रता जातेत्यर्थः । तथाच
बहोर्भूयसः कालादनन्तरं दृष्टमिदं वनमपरमन्यदिव मन्ये । परंतु शैलानां पर्व-
तानां निवेशो विन्यास विशेषस्तदेवेदं वनमिति बुद्धिं प्रत्यभिज्ञारूपां द्रढयति ।
दृढीकरोतीत्यर्थः ॥ तत्सारूप्यादिति ॥ वनसादृश्यादित्यर्थः । प्रामादौ किं
वनसादृश्यमित्याकाङ्क्षायां तद्गर्भ विशेषणमाह — कुटुम्बिष्वित्यादि । कुटु-
म्बिषु कुटुम्बिगतो यो धनसमृद्ध्योर्विपर्यासस्तं प्राप्तस्येत्यर्थः । तत्समाश्रयस्य
तादृशकुटुम्बिसमाश्रयस्य । तथाच समृद्ध्यसमृद्धिविपर्यासवदाश्रयत्वं सादृश्य-
मिति भावः । किमस्य सादृश्यस्योत्थापकमिति चेत् घनविरलेति विपर्यासमिति
च । ताभ्यामुक्तसादृश्यगर्भीकरणात् । एतेनैषां सादृश्यगर्भविशेषणोपस्थापि-
तसादृश्यमूला समासोक्तिरिति मूलग्रन्थानवबोधस्तद्विरोधश्चेति दूषणमलग्नकं
वेदितव्यम् ॥ अथात्राप्रस्तुतवृत्तान्तस्य विशेषणसाम्यगम्यत्वाभावादुक्तलक्षण-
स्याव्याप्तिरिति चेन्न । विशेषणसाम्यगम्यसादृश्यगम्यत्वेऽपि विशेषणसाम्यगम्य-
त्वानपायात् । प्राधान्यात्तु परं सारूप्यस्य गमकत्वोपदर्शनं सारूप्यादिति ग्रन्थे -
न । एवमग्रेsपि विशेषणसाम्यात्सादृश्याद्वेति विकल्पोक्तिरपि प्राधान्याभिप्रायै-
वेति निरवद्यम् ॥ एवमलंकारं निरूप्य तद्बोधप्रकारमुपदर्शयितुं भूमिकामारचय-
ति — अत्रचेति ॥ अत्र एषूदाहरणेषु ॥ अप्रस्तुतवृत्तान्तस्येति ॥ अप्र-
कृतजारा दिसंबन्धिनचुम्बना दिव्यवहारस्येत्यर्थः । विशेष्ये चन्द्रादौ । सर्वथा आ-
रोपानारोपान्यतरविधया । प्रस्तुतानन्वयिनः प्रकृतान्वयशून्यस्य । यद्वा सर्व
वेत्यस्य कवीत्यादिनान्वयः ॥ कविसंरम्मेति स्वप्रतीत्यु द्देश्यकशब्दसंदर्भरूपकवि-
व्यापारेत्यर्थः । अप्रस्तुतवृत्तान्तस्य चुम्बनादेरिवाप्रस्तुतस्य जारादेरपि चन्द्रादौ
समारोप इति मतं निराकरोति - नत्विति ॥ अप्रस्तुतरूपेति ॥ अप्रस्तुत -
-