This page has been fully proofread once and needs a second look.

पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां
विपर्यासं यातो घनविरलभावः क्षितिरुहाम् ।
बहोर्दृष्टं कालादपरमिव मन्ये वनमिदं
निवेश: शैलानां तदिदमिति बुद्धिं दृद्रढयति ॥
 
अत्र वनवर्णने प्रस्तुते तत्सारूप्यात्कुटुम्बिषु धनसन्तानादिसमृद्ध्यसमृद्धिविपर्यासं प्राप्तस्य तत्समाश्रयस्य ग्रामनगरादेर्वृत्तान्तः प्रतीयते ।
 
अत्र च प्रस्तुताप्रस्तुतसाधारणविशेषणबलात्सारूप्यबलाद्वाऽप्रस्तुतवृत्तान्तस्य प्रत्यायनं तत्प्रस्तुते विशेष्ये तत्समारोपार्थं सर्वथैव प्रस्तुतानन्वयिनः कविसंरम्भागोचरत्वायोगात् । ततश्च समासोक्तावप्रस्तुतव्यवहारसमारोपश्चारुताहेतुः । नतु रूपक इव प्रस्तुतेऽप्रस्तुतरूपसमारोपोऽस्ति । मुखं चन्द्र
 
[commentary]
 
ति भावः । सारूप्यात्सादृश्यात् ॥ पुरेति ॥ उत्तररामचरिते सीतात्यागानन्तरं कदाचिद्वनं प्रति गतस्य भगवतो रामचन्द्रस्येयमुक्तिः । पुरा वनवासकाले सरितां नदीनां स्रोतः प्रवाहो यत्र प्रदेशे आसीत्तत्राधुना पुलिनमस्तीति शेषः । तथा क्षितिरुहां तरूणां घनविरलभावो विपर्यासं वैपरीत्यं यातः प्राप्तः । सान्द्राणां विरलता विरलानां शाखापल्लवादिवृद्ध्या सान्द्रता जातेत्यर्थः । तथा बहोर्भूयसः कालादनन्तरं दृष्टमिदं वनमपरमन्यदिव मन्ये । परन्तु शैलानां पर्वतानां निवेशो विन्यासविशेषस्तदेवेदं वनमिति बुद्धिं प्रत्यभिज्ञारूपां द्रढयति । दृढीकरोतीत्यर्थः ॥ तत्सारूप्यादिति ॥ वनसादृश्यादित्यर्थः । प्रामादौ किं वनसादृश्यमित्याकाङ्क्षायां तद्गर्भं विशेषणमाह -- कुटुम्बिष्वित्यादि । कुटुम्बिषु कुटुम्बिगतो यो धनसमृद्ध्योर्विपर्यासस्तं प्राप्तस्येत्यर्थः । तत्समाश्रयस्य तादृशकुटुम्बिसमाश्रयस्य । तथाच समृद्ध्यसमृद्धिविपर्यासवदाश्रयत्वं सादृश्यमिति भावः । किमस्य सादृश्यस्योत्थापकमिति चेत् घनविरलेति विपर्यासमिति च । ताभ्यामुक्तसादृश्यगर्भीकरणात् । एतेनैषां सादृश्यगर्भविशेषणोपस्थापितसादृश्यमूला समासोक्तिरिति मूलग्रन्थानवबोधस्तद्विरोधश्चेति दूषणमलग्नकं वेदितव्यम् ॥ अथात्राप्रस्तुतवृत्तान्तस्य विशेषणसाम्यगम्यत्वाभावादुक्तलक्षण-
स्याव्याप्तिरिति चेन्न । विशेषणसाम्यगम्यसादृश्यगम्यत्वेऽपि विशेषणसाम्यगम्यत्वानपायात् । प्राधान्यात्तु परं सारूप्यस्य गमकत्वोपदर्शनं सारूप्यादिति ग्रन्थेन । एवमग्रेsपि विशेषणसाम्यात्सादृश्याद्वेति विकल्पोक्तिरपि प्राधान्याभिप्रायैवेति निरवद्यम् ॥ एवमलंकारं निरूप्य तद्बोधप्रकारमुपदर्शयितुं भूमिकामारचयति -- अत्रचेति ॥ अत्र एषूदाहरणेषु ॥ अप्रस्तुतवृत्तान्तस्येति ॥ अप्रकृतजारादिसम्बन्धिनचुम्बनादिव्यवहारस्येत्यर्थः । विशेष्ये चन्द्रादौ । सर्वथा आरोपानारोपान्यतरविधया । प्रस्तुतानन्वयिनः प्रकृतान्वयशून्यस्य । यद्वा सर्वथैवेत्यस्य कवीत्यादिनान्वयः ॥ कविसम्रम्मेति स्वप्रतीत्युद्देश्यकशब्दसन्दर्भरूपकविव्यापारेत्यर्थः । अप्रस्तुतवृत्तान्तस्य चुम्बनादेरिवाप्रस्तुतस्य जारादेरपि चन्द्रादौ
समारोप इति मतं निराकरोति -- नत्विति ॥ अप्रस्तुतरूपेति ॥ अप्रस्तुत-