2023-04-23 10:02:42 by Bharadwajraki
This page has been fully proofread twice.
रिस्फूर्तिस्तत्र समासोक्तिरलंकारः । समासेन संक्षेपेण प्रस्तुताप्रस्तुतवृत्तान्तयोर्वचनात् । उदाहरणमयमैन्द्रीति ॥ अत्रहि चन्द्रस्य प्राचीप्रारम्भलक्षणमुखसम्बन्धलक्षणे उदये वर्ण्यमाने मुखशब्दस्य प्रारम्भवदनसाधारण्याद्रक्तशब्दस्यारुणकामुकसाधारण्याच्चुम्बतीत्यस्य प्रस्तुतार्थसम्बन्धमात्रपरस्य शक्यार्थान्तरसाधारण्याञ्च्च चन्द्रमः शब्दगतपुंलिङ्गेन ऐन्द्रीशब्दगत- स्त्रीलिङ्गेन तत्प्रतिपाद्येन्द्रसम्बन्धित्वेन चोपस्कृतादप्रस्तुतपरवनितासक्तपुरुषवृत्तान्तः प्रतीयते ।
यथावा --
व्यावलल्गत्कुचभारमाकुलकचं व्यालोलहारावलि
प्रेङ्खत्कुण्डलशोभिगण्डयुगलं प्रस्वेदि वक्त्राम्बुजम् ।
शश्वद्दत्तकरप्रहारमधिकश्वासं रसादेतया
यस्मात्कन्दुक सादरं सुभगया संसेव्यसे तत्कृती ॥
अत्र कन्दुकवृत्तान्ते वर्ण्यमाने व्यावलल्गत्कुचभारमित्यादिक्रियाविशेषणसा-म्याद्विपरीतरतासक्तनायिकावृत्तान्तः प्रतीयते । पूर्वत्र विशेषणानि श्लिष्टानि इह साधारणानीति भेदः । सारूप्यादपि समासोक्तिर्दृश्यते । यथावा --
[commentary]
वगमान्नातिव्याप्तिः । संज्ञाप्रवृत्तिनिमित्तमवयवार्थं दर्शयति -- समासेनेति ॥ वचनात्प्रतिपादनात् । लक्ष्ये लक्षणं संगमयति -- अत्रेति ॥ प्रारम्भ आदिभागः । साधारण्याच्छ्रिलिष्टत्वात् । यद्यपि चुम्बतीत्यत्र न श्लेषस्तथाप्यर्थद्वयबोधकत्वमात्रेण तस्य साधारण्योक्तिः । उपस्कृतादिति साधारण्यादित्यस्य विशेषणम् । तत्र चन्द्रमः शब्दगतेन पुंलिङ्गेन नायकत्वाभिव्यक्त्या उपस्कारः । ऐन्द्रीति स्वरूपपरं तद्गतेन स्त्रीलिङ्गेन तदर्थस्य नायिकत्वाभिव्यक्त्या ऐन्द्रीशब्दप्रतिपाद्येनेन्द्रसम्बन्धित्वेन च परकीयत्वाभिव्यक्त्येति बोध्यम् । वृत्तान्तो व्यवहारो मुखचुम्बनरूपः ॥ व्यावल्गदिति ॥ नायिकानुरक्तस्य कस्यचित्क्रीडालम्बनं कन्दुकं प्रत्युक्तिरियम् । हे कन्दुक, सुभगया सुन्दर्या एतया नायिकया रसात्प्रीतिविशेषात्सादरमादरसहितं यथा स्यात्तथा यस्मात्संसेव्य से तत्तस्मात्कृती धन्योऽसीत्यन्वयः । कथमित्याकाङ्क्षायां संसेवनक्रियां विशिनष्टि -- व्यावल्गदित्यादिना ॥ व्यावलल्गन्विशेषत आसमन्ताञ्च्चलन्कुचभारो यत्र, तथा आकुलाः क्रीडावेशेनेतस्ततः
पर्यस्ताः कचाः केशा यत्र, एवं व्यालोला दोलायिता हारावलिर्यत्र, तथा प्रेङ्खद्भ्यां चञ्चलाभ्यां कुण्डलाभ्यां शोभायुक्तं गण्डयुगलं यत्र, एवं प्रस्वेदयुक्तं वकाक्त्राम्बुजं यत्र, शश्वन्निरन्तरं दत्तः करेण प्रहारो यत्र तथा अधिकः श्वासो यत्र तथेति । वृत्तान्तः विपरीतरतरूपः । अत्रापि कन्दुकशब्दगतपुंलिङ्गेन नायकत्वामिव्यक्तिबर्बोध्या ॥ श्लिष्टानीति ॥ श्लेषमूलकाभेदाध्यवसायविषयाणीत्यर्थः ॥ साधारणानीति ॥ श्लेषं विनैव प्रकृताप्रकृतवृत्तान्तयोरनुगतानीत्यर्थः । तथाच लक्षणे साम्यशब्देन श्लेषकृतं स्वारसिकं च साम्यं विवक्षितमि-
यथावा --
व्याव
प्रेङ्खत्कुण्डलशोभिगण्डयुगलं प्रस्वेदि वक्त्राम्बुजम् ।
शश्वद्दत्तकरप्रहारमधिकश्वासं रसादेतया
यस्मात्कन्दुक सादरं सुभगया संसेव्यसे तत्कृती ॥
अत्र कन्दुकवृत्तान्ते वर्ण्यमाने व्याव
[commentary]
वगमान्नातिव्याप्तिः । संज्ञाप्रवृत्तिनिमित्तमवयवार्थं दर्शयति -- समासेनेति ॥ वचनात्प्रतिपादनात् । लक्ष्ये लक्षणं संगमयति -- अत्रेति ॥ प्रारम्भ आदिभागः । साधारण्याच्छ्
पर्यस्ताः कचाः केशा यत्र, एवं व्यालोला दोलायिता हारावलिर्यत्र, तथा प्रेङ्खद्भ्यां चञ्चलाभ्यां कुण्डलाभ्यां शोभायुक्तं गण्डयुगलं यत्र, एवं प्रस्वेदयुक्तं व