This page has been fully proofread once and needs a second look.

६६
 
कुवलयानन्दः । [
रिस्फूर्तिस्तत्र समासोक्त्यतिरलंकारः २३
 
रिस्फूर्तिस्तत्र समासोक्तिरलंकारः
। समासेन संक्षेपेण प्रस्तुताप्रस्तुतवृत्तान्त.
योर्वचनात् । उदाहरणमयमैन्द्रीति ॥ अत्रहि चन्द्रस्य प्राचीप्रारम्भलक्षण-
मुखसंसम्बन्धलक्षणे उदये वर्ण्यमाने मुखशब्दस्य प्रारम्भवदनसाधारण्याद्रक्त-
शब्दस्यारुणकामुकसाधारण्याच्चुम्बतीत्यस्य प्रस्तुतार्थसंसम्बन्धमात्रपरस्य शक्या-
र्थान्तरसाधारण्याञ्च चन्द्रमः शब्दगतपुंलिङ्गेन ऐन्द्रीशब्दगत- स्त्रीलिङ्गेन तत्प्रति-
पाद्येन्द्रसंसम्बन्धित्वेन चोपस्कृतादप्रस्तुतपरवनितासक्त पुरुषवृत्तान्तः प्रतीयते ।
 

 
यथावा -
-
 

 
व्यावलगत्कुचभारमाकुलकचं व्यालोलहारावलि

प्रेङ्खत्कुण्डलशोभिगण्डयुगलं प्रस्वेदि वावक्त्राम्बुजम् ।
 

शश्वद्दत्तकरप्रहारमधिकश्वासं रसादेतया
 

यस्मात्कन्दुक सादरं सुभगया
संसेव्यसे तत्कृती ॥
 
यस्मात्कन्दुक सादरं सुभगया संसे
 

 
अत्र कन्दुकवृत्तान्ते वर्ण्यमाने व्यावलगत्कुचभारमित्यादिक्रियाविशेषणसा-
म्याद्विपरीतरतासक्तनायिकावृत्तान्तः प्रतीयते । पूर्वत्र विशेषणानि श्लिष्टानि
इह साधारणानीति भेदः । सारूप्यादपि समासोक्तिर्दृश्यते । यथावा -
-
 
[commentary]
 
वगमान्नातिव्याप्तिः । संज्ञाप्रवृत्तिनिमित्तमवयवार्थं दर्शयति -- समासेनेति ॥
वचनात्प्रतिपादनात् । लक्ष्ये लक्षणं संगमयति -- अत्रेति ॥ प्रारम्भ आदिभागः ।
साधारण्याच्छ्रिष्टत्वात् । यद्यपि चुम्बतीत्यत्र न श्लेषस्तथाप्यर्थद्वयबोधकत्वमात्रेण
तस्य साधारण्योक्तिः । उपस्कृतादिति साधारण्यादित्यस्य विशेषणम् । तत्र च
न्द्रमः शब्दगतेन पुंलिङ्गेन नायकत्वाभिव्यक्त्या उपस्कारः । ऐन्द्रीति स्वरूपपरंत-
द्गतेन स्त्रीलिङ्गेन तदर्थस्य नायिकत्वाभिव्यक्त्या ऐन्द्रीशब्दप्रतिपाद्येनेन्द्र संसम्बन्धि-
त्वेन च परकीयत्वाभिव्यक्त्येति बोध्यम् । वृत्तान्तो व्यवहारो मुखचुम्बनरूपः ॥
व्यावल्गदिति ॥ नायिकानुरक्तस्य कस्यचित्क्रीडालम्बनं कन्दुकं प्रत्युक्तिरियम् ।
हे कन्दुक, सुभगया सुन्दर्या एतया नायिकया रसात्प्रीतिविशेषात्सादरमा-
दरसहितं यथा स्यात्तथा यस्मात्संसेव्य से तत्तस्मात्कृती धन्योऽसीत्यन्वयः । क
थमित्याकाङ्क्षायां संसेवनक्रियां विशिनष्टि -- व्यावल्गदित्यादिना ॥ व्याव-
लगन्विशेषत आसमन्ताञ्चलन्कुचभारो यत्र, तथा आकुलाः क्रीडावेशेनेतस्ततः

पर्यस्ताः कचाः केशा यत्र, एवं व्यालोला दोलायिता हारावलिर्यत्र, तथा प्रेङ्ख-
द्भ्यां चञ्चलाभ्यां कुण्डलाभ्यां शोभायुक्तं गण्डयुगलं यत्र, एवं प्रस्वेदयुक्तं व
काम्बुजं यत्र, शश्वन्निरन्तरं दत्तः करेण प्रहारो यत्र तथा अधिकः श्वासो
यत्र तथेति । वृत्तान्तः विपरीतरतरूपः । अत्रापि कन्दुकशब्दगतपुंलिङ्गेन ना-
यकत्वामिव्यक्तिबध्या ॥ श्लिष्टानीति ॥ श्लेषमूलकाभेदाध्यवसायविषयाणी-
त्यर्थः ॥ साधारणानीति ॥ श्लेषं विनैव प्रकृताप्रकृतवृत्तान्तयोरनुगतानी-
त्यर्थः । तथाच लक्षणे साम्यशब्देन श्लेषकृतं स्वारसिकं च साम्यं विवक्षितमि-