This page has not been fully proofread.

समासोक्त्यलंकार: २३] अलंकारचन्द्रिकासहितः ।
 
पथावा-
तच्चेत्किचिद्विना रम्यं विनोक्तिः सापि कथ्यते ।
विना खलैर्विभात्येषा राजेन्द्र भवतः सभा ॥ ६० ॥
 
आविर्भूते शशिनि तमसा मुच्यमानेव रात्रि-
नैंशस्यार्चिहुतभुज इव च्छिन्नभूयिष्ठधूमा ।
मोहेनान्तर्वरतनुरियं लक्ष्यते मुक्तकल्पा
 
गङ्गा रोधःपतनकलुषा गृह्णतीव प्रसादम् ॥
अत्र तमः प्रभृतीन्विना निशादीनां रम्यत्वं विनाशब्दमन्तरेण दर्शितम् ६०
समासोत्त्यलंकारः २३
 
समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत् ।
अयमैन्द्रीमुखं पश्य रक्तश्रुम्बति चन्द्रमाः ॥ ६१ ॥
यत्र प्रस्तुतवृत्तान्ते वर्ण्यमाने विशेषणसाम्यबलादप्रस्तुतवृत्तान्तस्यापि प
 
:
 
नञ्चेदिति ॥ तत्प्रस्तुतं किंचिद्विना रम्यं चेत्सापि विनोक्तिः कथ्यत इत्यन्वयः ।
थंच किंचियतिरेकेण प्रस्तुतस्य रम्यत्वारम्यत्वान्यतरवर्णनं विनोक्तिरिति
कारद्वयसाधारणं सामान्यलक्षणं बोध्यम् । यत्तु हृद्यो विनार्थसंबन्ध एव वि-
नोक्तिः ।" हृद्यत्वं च विनाकृतस्य वस्तुनो रमणीयत्वारमणीयत्वाभ्यां भवतीत्यर्वा-
वीनैरुक्तम् । तदयुक्तम् । कारणं विना कार्योत्पत्तिकथनरूपे विभावनालंकारे-
प्रतिव्याप्तेर्वारणाय विनार्थसंवन्धप्रयुक्त प्रस्तुतगतरमणीयत्वादेरपि लक्षणे निवेश-
य़ावश्यकत्वादिति ॥ आविर्भूत इति ॥ मानवतीविषये नायकस्य परामर्शो-
ऽयम् । इयं वरतनुरन्तः अन्तःकरणे मोहेन मानावेशेन मुक्तकल्पा ईषन्यून-
नुक्ता लक्ष्यते । केव । पूर्व रोधसस्तटस्य पतनेन कलुषा अनन्तरं कालुण्यापग-
नात्प्रसादं नैर्मल्यं गृह्णत्याश्रयन्ती गङ्गेव । तथा शशिनि चन्द्रे आविर्भूते उदिते
जति तमसा मुच्यमाना रात्रिरिव । एवं छिन्नो नष्टो भूयिष्ठो धूमो यस्या एवं
नूता निशि भवस्य हुतभुजो वहेरर्चिः शिखेवेति ॥ दर्शितमिति ॥ अर्थतो
पोधितमित्यर्थः ॥ ६० ॥ इति विनोक्तिप्रकरणम् ॥ २२ ॥
 
समासोक्तिं लक्षयति – समासोक्तिरिति ॥ प्रस्तुते वर्ण्यमाने अप्रस्तुत
याप्रस्तुतवृत्तान्तस्य परिस्फूर्तिश्चेत्तदा समासोक्तिरित्यन्वयः ॥ अयमिति ॥ इ
द्रस्येयमैन्द्री प्राची । मुखादिभागो वदनं च । रक्तो रक्तवर्णोऽनुरक्तश्च । चु-
-बनं संबन्धो वक्र संयोगविशेषश्च । यथाश्रुतलक्षणस्य वक्ष्यमाणे 'असावुदयमा
ह्डः कान्तिमान्रक्तमण्डलः । राजा हरति सर्वस्य हृदयं मृदुलैः करैः ॥' इत्या-
देप्रकृताप्रकृत श्लेषेऽतिव्याप्तेराह - विशेषणसाम्यबलादिति ॥ विशेषणमा-
साम्यबलादित्यर्थः । एवंच विशेषणमात्रसाम्यगम्याप्रस्तुतवृत्तान्तत्वं लक्षणं बो-
यम् । उदाहृतश्लेषे चाप्रकृतनृपवृत्तान्तस्य विशेष्यवाचिना श्लिष्टेन राजपदेनाप्य
 
-