This page has been fully proofread twice.

तच्चेत्किंचिद्विना रम्यं विनोक्तिः सापि कथ्यते ।
विना खलैर्विभात्येषा राजेन्द्र भवतः सभा ॥ ६० ॥
 
यथावा --
 
आविर्भूते शशिनि तमसा मुच्यमानेव रात्रि-
नैंशस्यार्चिहुतभुज इव च्छिन्नभूयिष्ठधूमा ।
मोहेनान्तर्वरतनुरियं लक्ष्यते मुक्तकल्पा
गङ्गा रोधःपतनकलुषा गृह्णतीव प्रसादम् ॥
 
अत्र तमः प्रभृतीन्विना निशादीनां रम्यत्वं विनाशब्दमन्तरेण दर्शितम् ६०
 
----------------
 
समासोक्त्त्यलंकारः २३
 
समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत् ।
अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः ॥ ६१ ॥
 
यत्र प्रस्तुतवृत्तान्ते वर्ण्यमाने विशेषणसाम्यबलादप्रस्तुतवृत्तान्तस्यापि प-
 
[commentary]
 
तच्चेदिति ॥ तत्प्रस्तुतं किंचिद्विना रम्यं चेत्सापि विनोक्तिः कथ्यत इत्यन्वयः । इत्थंच किंचिद्व्यतिरेकेण प्रस्तुतस्य रम्यत्वारम्यत्वान्यतरवर्णनं विनोक्तिरिति प्रकारद्वयसाधारणं सामान्यलक्षणं बोध्यम् । यत्तु "हृद्यो विनार्थसम्बन्ध एव विनोक्तिः ।" हृद्यत्वं च विनाकृतस्य वस्तुनो रमणीयत्वारमणीयत्वाभ्यां भवतीत्यर्वाचीनैरुक्तम् । तदयुक्तम् । कारणं विना कार्योत्पत्तिकथनरूपे विभावनालंकारेऽप्तिव्याप्तेर्वारणाय विनार्थसम्बन्धप्रयुक्तप्रस्तुतगतरमणीयत्वादेरपि लक्षणे निवेशत्स्यावश्यकत्वादिति ॥ आविर्भूत इति ॥ मानवतीविषये नायकस्य परामर्शोऽयम् । इयं वरतनुरन्तः अन्तःकरणे मोहेन मानावेशेन मुक्तकल्पा ईषन्यूनमुक्ता लक्ष्यते । केव । पूर्वं रोधसस्तटस्य पतनेन कलुषा अनन्तरं कालुण्यापगमात्प्रसादं नैर्मल्यं गृह्णत्याश्रयन्ती गङ्गेव । तथा शशिनि चन्द्रे आविर्भूते उदिते सति तमसा मुच्यमाना रात्रिरिव । एवं छिन्नो नष्टो भूयिष्ठो धूमो यस्या एवम्वंभूता निशि भवस्य हुतभुजो वह्नेरर्चिः शिखेवेति ॥ दर्शितमिति ॥ अर्थतो बोधितमित्यर्थः ॥ ६० ॥ इति विनोक्तिप्रकरणम् ॥ २२ ॥
 
समासोक्तिं लक्षयति -- समासोक्तिरिति ॥ प्रस्तुते वर्ण्यमाने अप्रस्तुतत्याप्रस्तुतवृत्तान्तस्य परिस्फूर्तिश्चेत्तदा समासोक्तिरित्यन्वयः ॥ अयमिति ॥ इन्द्रस्येयमैन्द्री प्राची । मुखादिभागो वदनं च । रक्तो रक्तवर्णोऽनुरक्तश्च । चुम्बनं सम्बन्धो वक्त्रसंयोगविशेषश्च । यथाश्रुतलक्षणस्य वक्ष्यमाणे 'असावुदयमारूढः कान्तिमान्रक्तमण्डलः । राजा हरति सर्वस्य हृदयं मृदुलैः करैः ॥' इत्यादिप्रकृताप्रकृतश्लेषेऽतिव्याप्तेराह -- विशेषणसाम्यबलादिति ॥ विशेषणमात्रसाम्यबलादित्यर्थः । एवंच विशेषणमात्रसाम्यगम्याप्रस्तुतवृत्तान्तत्वं लक्षणं बोध्यम् । उदाहृतश्लेषे चाप्रकृतनृपवृत्तान्तस्य विशेष्यवाचिना श्लिष्टेन राजपदेनाप्य-