This page has not been fully proofread.

कुवलयानन्दः । [ विनोत्तयलंकारः २२
 
यथावा-
छाया संश्रयते तलं विटपिनां श्रान्तेव पान्थैः समं
मूलं याति सरोजलस्य जडता ग्लानेव मीनैः सह ।
आचामत्यहिमांशुदीधितिरपस्तप्तेव लोकैः समं
निद्रा गर्भगृहं सह प्रविशति क्लान्तेव कान्ताजनैः ॥
जनरञ्जन इत्युक्तेरनेन सार्धं विहराम्बुराशेरित्यादौ न सहोक्तिरलंकारः ५७
 
६४
 
विनोक्त्यलंकारः २२
 
विनोक्तिंचेद्विना किंचित्प्रस्तुतं हीनमुच्यते ।
विद्या हृद्यापि सावद्या विना विनयसंपदम् ॥ ५९ ॥
 
यथावा---
 
यश्च रामं न पश्येत्तु यं च रामो न पश्यति ।
निन्दितः स भवेल्लोके स्वात्माप्येनं विगर्हते ॥
 
अत्रच रामदर्शनेन विना हीनत्वं विनाशब्दमन्तरेणैव दर्शितम् ॥ ५९ ॥
 
गमनान्वयप्रतीतिः तदुक्तम् – 'सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम्'
इति ॥ छायेति ॥ ग्रीष्मर्तौ मध्याह्नवर्णन मिदम् । छाया पान्थैरध्वगैः समं सार्धं
विटपिनां तरूणां तलं मूलप्रदेशं संश्रयते । कुत इत्याकाङ्क्षायामुत्प्रेक्षते-
श्रान्तेवेति । श्रमश्चात्रातपातिशयकृतो बोध्यः । एवमग्रेऽपि । जडता शीत-
लता ग्लानेव सरोजलस्य मूलमधोदेशं मीनैर्मत्स्यैः सह याति गच्छति । ग्ला-
निर्बलापचयः । तथा अहिमा उष्णा अंशवः करा यस्यैवंभूतस्य रवेर्दीधिति-
स्तप्तेव संतप्तेव सती लोकैः सममपः जलानि आचामति पिबति । 'दीधितिः
स्त्रियाम्' इत्यमरः । निद्रा क्लान्तेव सती कान्ताजनैः सह गर्भगृहमभ्यन्तरगृहं
प्रविशति । तत्रैव तदुद्भवात् । क्लान्तिस्तेजोहानिः । सौकुमार्यातिशयेन तत्सौ-
लभ्यात्कान्तोपादानम् ॥ इत्यादाविति ॥ इन्दुमतीस्वयंवरे रघुवंशे 'अनेन
सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु । द्वीपान्तरानीतलवङ्गपुष्पैरपाकृत-
स्वेदलवा मरुद्भिः ॥' इति पद्यम् । अत्र सहोक्तिचमत्कारित्वान्नालंकाररूपे-
त्यर्थः ॥ ५८ ॥ इति सहोक्तिप्रकरणम् ॥ २१ ॥
 
विनोक्तिरिति ॥ किंचिद्विना प्रस्तुतं वर्ण्य हीनं दुष्टमुच्यते चेत्तदा विनोक्ति-
नामालंकार इत्यर्थः ॥ विद्येति ॥ विनयसंपत्तिं विना या विद्या सा हृद्या मनोह-
रापि दुष्टेत्यन्वयः । अत्र प्रस्तुताया विद्याया विनयं विना दुष्टत्वमुक्तम् ॥ यश्चेति ॥
यः पुरुषः खात्मा स्वान्तःकरणं विगर्हते निन्दति । रामदर्शनं विनेति रामकर्मकं
रामकर्तृकं च दर्शनं विनेत्यर्थः ॥ अन्तरेणापीति ॥ विनापीत्यर्थः । तथाच
विनोक्तिरित्यर्थग्रहणं नतु शब्दग्रहणमिति भावः ॥ ५९ ॥ प्रकारान्तरमाह-
१ ' विनोक्तिः स्याद्विना'.
 
-