This page has been fully proofread twice.

कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः
सर्वं तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥
 
अनुभयपर्यवसायी यथा --
 
दृढतरनिबद्धमुष्टेः कोशनिषण्णस्य सहजमलिनस्य ।
कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥
 
----------------
 
सहोक्त्यलंकारः २१
 
सहोक्तिः सहभावश्चे[^१]द्भासते जनरञ्जनः ।
दिगन्तमगमत्तस्य कीर्तिः प्रत्यर्थिभिः सह ॥ ५८ ॥
 
[commentary]
 
शोकपदश्लेषादवगम्यते । किं तत्सर्वं समानं तत्राह -- रक्त इत्यादि ॥ त्वं नूतनैः पल्लवैः रक्तो रक्तवर्णः, अहमपि प्रियायाः श्लाघनीयैर्गुणैः सौन्दर्यादिभी रक्तोऽनुरक्तः । अर्थात्प्रियायाम् । हे सखे, त्वां प्रति शिलीमुखा भ्रमरा आयान्ति, मां प्रत्यपि स्मरेण धनुषा मुक्ताः प्रेरिताः शिलीमुखा बाणा आयान्ति । एवं कान्तायाः पादतलस्याघातो यथा तव मुदे सन्तोषाय तद्वत्तथा ममापि सन्तोषायेत्यर्थः । कामिनीपादघातेनाशोकस्य पुष्पोद्गम इति कविप्रसिद्धिः । अत्रोपमेयस्य
सशोकत्वेनापकर्षः ॥ अनुभवपर्यवसायी उपमेयोत्कर्षापकर्षान्यतरपर्यवसानरहितः ॥ दृढतरेति ॥ कृपणस्य कृपाणस्य खड्गस्य चाकारतो दीर्घाद्वर्णादाकृतेश्च केवलं भेदो वैलक्षण्यम् । प्रकारान्तरेण तु साम्यमेवेत्यर्थः । कथं तत्राह -- दृढतरेत्यादि ॥ दृढतरं निबद्धो मुष्टिर्येनेति । कृपणपक्षे धनव्ययवैमुख्येन मुष्टिमोचनाभावात् । खड्गपक्षे तु दृढतरं निबद्धः सम्बद्धो मुष्टिर्मुष्टिग्राह्यभागो यस्येत्यर्थः । कोशो भाण्डारगृहं तत्र निषण्ण उपविष्टः कृपणः । कोशे पिधानके निषण्णः स्थित इति खड्गपक्षे । सहजमलिन:नः स्वभावमलिनः । मलिनवेषत्वात्कृपणः । खड्गस्तु कृष्णवर्णत्वादिति । एवंच किंचिद्धर्मप्रयुक्तसाम्यवत्तया प्रतीयमानयोः किंचिद्धर्मप्रयुक्तवैलक्षण्यं व्यतिरेकशरीरम् । वैलक्षण्यं तु क्वचिदुपमेयस्योत्कर्षे क्वचिच्च तदपकर्षे पर्यवसन्नं क्वचित्तु तदन्यतरपर्यवसानविरहेऽपि स्ववैचित्र्यविश्रान्तमात्रमिति बोध्यम् । एतेन चरमभेदद्वयतदुदाहरणदूषणं कस्यचिदापातरमणीयमिव भासमानं प्रत्युक्तं वेदितव्यम् । अत्यन्तासारतया तु नानुवादमर्हतीत्युपरम्यते ॥ ५७ ॥ इति व्यतिरेकालंकारप्रकरणम् ॥ २० ॥
 
सहोक्तिरिति ॥ लक्ष्यनिर्देशः । सहभाव इत्यादिलक्षणम् । सहभावः साहित्यम् । जनरञ्जनः सहृदयजनाह्लादकः । एवंच चमत्कृतिजनकं साहित्यं सहोक्तिरिति लक्षणम् ॥ दिगन्तमिति ॥ तस्य राज्ञः कीर्तिः प्रत्यर्थिभिः शत्रुभिः सह दिगन्तमगमदित्यन्वयः । अत्रच तृतीयाया निरूपितत्वार्थकतया प्रत्यर्थिनिरूपितसाहित्यवतीकीर्तिर्गमनाश्रय इतिबोधे एकधर्मान्वयित्वरूपसाहित्यबलात्प्रत्यर्थिनामपि
 
[^१] 'श्चेदुच्यते'.