This page has been fully proofread once and needs a second look.

सहोत्तयलंकारः २१ ] अलंकारचन्द्रिकासहितः ।
 
कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः
सर्व

सर्वं
तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥

 
अनुभयपर्यवसायी यथा-
-
 
--
 
दृढतरनिबद्धमुष्टेः कोश निषण्णस्य सहजमलिनस्य ।

कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥
 

 
----------------
 
सहोत्तक्त्यलंकारः २१

 
सहोक्तिः सहभाव [^१]श्वेद्भासते जनरञ्जनः ।

दिगन्तमगमत्तस्य कीर्तिः प्रत्यर्थिभिः सह ॥ ५८ ॥
 
६३
 

 
[commentary]
 
तोकपदश्लेषादवगम्यते । किं तत्सर्वं समानं तत्राह -- रक्त इत्यादि ॥ त्वं नू-
तनैः पछ्ल्लवैः रक्तो रक्तवर्णः, अहमपि प्रियायाः श्लाघनीयैर्गुणैः सौन्दर्यादिभी
[
क्तोऽनुरक्तः । अर्थात्प्रियायाम् । हे सखे, त्वां प्रति शिलीमुखा भ्रमरा आ
ग्रान्ति, मां प्रत्यपि स्मरेण धनुषा मुक्ताः प्रेरिताः शिलीमुखा बाणा आयान्ति ।
एवं कान्तायाः पादतलस्याघातो यथा तव मुदे संसन्तोषाय तद्वत्तथा ममापि संसन्तो-
त्रा
षायेत्यर्थः । कामिनीपादघातेनाशोकस्य पुष्पोद्गम इति कविप्रसिद्धिः । अत्रोपमेयस्य

पशोकत्वेनापकर्षः ॥ अनुभवपर्यवसायी उपमेयोत्कर्षापकर्षान्यतरपर्यवसानर-
हेतः ॥ दृढतरेति ॥ कृपणस्य कृपाणस्य खड्गस्य चाकारतो दीर्घाद्वर्णादाकृतेश्च
केवलं भेदो वैलक्षण्यम् । प्रकारान्तरेण तु साम्यमेवेत्यर्थः । कथं तत्राह -- दृढ-
तरेत्यादि ॥ दृढतरं निबद्धो मुष्टिर्येनेति । कृपणपक्षे धनव्ययवैमुख्येन मुष्टिमो-
वनाभावात् । खड्गपक्षे तु दृढतरं निबद्धः संसम्बद्धो मुष्टिर्मुष्टिग्राह्यभागो यस्येत्यर्थः ।
कोशो भाण्डारगृहं तत्र निषण्ण उपविष्टः कृपणः । कोशे पिधानके निषण्णः स्थित
{
ति खड्गपक्षे । सहजमलिन: स्वभावमलिनः । मलिनवेषत्वात्कृपणः । खड्गस्तु
कृष्णवर्णत्वादिति । एवंच किंचिद्धर्मप्रयुक्तसाम्यवत्तया प्रतीयमानयोः किंचिद्धर्म-

नयुक्तवैलक्षण्यं व्यतिरेकशरीरम् । वैलक्षण्यं तु क्वचिदुपमेयस्योत्कर्षे क्वचिच्च तदप-
कर्षे पर्यवसन्नं क्वचित्तु तदन्यतरपर्यवसानविरहेऽपि खवैचित्र्य विश्रान्तमात्रमिति
गे
बोध्यम् । एतेन चरमभेदद्वयतदुदाहरणदूषणं कस्यचिदापातरमणीयमिव भासमानं
अत्युक्तं वेदितव्यम् । अत्यन्तासारतया तु नानुवाद मर्हतीत्युपरम्यते ॥ ५७ ॥
इति व्यतिरेकालंकारप्रकरणम् ॥ २० ॥
 

 
सहोक्तिरिति ॥ लक्ष्य निर्देशः । सहभाव इत्यादिलक्षणम् । सहभावः साहित्यम् ।
तनरञ्जनः सहृदयजनाह्लादकः । एवंच चमत्कृतिजनकं साहित्यं सहोक्तिरिति ल-
क्षनृणम् ॥ दिगन्तमिति ॥ तस्य राज्ञः कीर्तिः प्रत्यर्थिभिः शत्रुभिः सह दिग-
तमगमदित्यन्वयः । अत्रच तृतीयाया निरूपितत्वार्थकतया प्रत्यर्थिनिरूपितसा-
हेत्यवतीकीर्तिर्गमनाश्रय इतिबोधे एकधर्मान्वयित्वरूपसाहित्यबलात्प्रत्यर्थिनामपि
 

 
[^
]'श्चेदुच्यते'.